Book Title: Trishashti Shalaka Purush Charita Mahakavyam_01
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 349
________________ अमुना विजितश्चक्रवर्ती किं न भवाम्यहम् ? । मयाऽप्यविजितो विश्वाजय्यस्तच्चक्रवर्त्यसौ ? ॥७०६॥ एवं चिन्तयतस्तस्य, चिन्तामणिविडम्बकैः । यक्षराजैः समानीय, चक्रमारोपितं करे ॥ ७०७ ॥ तत्प्रत्ययाच्चक्रिमानी, चक्रं भ्रमयति स्म सः । वात्यावर्त इवाऽम्भोजरजोमण्डलमम्बरे ॥ ७०८॥ कालानल इवाऽकालेऽप्यौर्वानल इवाऽपरः । वज्रानल इवाऽकस्मादुल्कापुञ्ज इवोच्चकैः ॥ ७०९ ॥ रविविम्बमिव भ्रस्यद् , विद्युद्गोल इव भ्रमन् । ज्वालाजालकरालं तच्चक्रं व्योमन्यलक्ष्यत ॥७१०॥[युग्मम्] भ्रम्यमाणं प्रहाराय, तच्चक्रं चक्रवर्तिना । निध्याय दध्यौ मनसि, मनस्वी बहलीपतिः॥७११॥ धिक् तातपुत्रमानित्वमस्य क्षत्रव्रतं च धिक् । मयि दण्डायुधे चक्रादानं यद् भरतेशितुः॥ ७१२॥ समक्षं घुसदामस्योत्तमयुद्धप्रतिश्रवम् । धिगहो! बालकस्येव, संव्यानादानमीदृशम् ॥ ७१३ ॥ तेजोलेश्यां तपस्खीव, रुष्टश्चक्रं प्रदर्शयन् । यथेषोऽभापयद् विश्वं, मां विभाययिषुस्तथा ॥ ७१४॥ निजदोर्दण्डदण्डानां, सारं विज्ञातवान् यथा । असौ तथा रथाङ्गस्याऽप्यस्य जानातु विक्रमम् ॥७१५॥ एवं चिन्तयतो याहुबलेर्दोर्बलशालिनः । प्रेर्य सौंजसा चक्रं, मुमोच भरतेश्वरः ॥७१६॥ दण्डेन दलयाम्याशु, किमिदं जीर्णभाण्डवत । किंवा कन्दुकवत् पश्चात, क्षिपाम्याहत्य हेलया ७१७॥ शकुलावत् किमथवा, लीलयोल्लालयामि खे१। यदि वा मेदिनीमध्ये, न्यस्यामि शिशुनालवत् ॥७१८॥ गृह्णामि पाणिना किं वोल्ललच्चटकपोतवत् । । अथाऽपहस्तयाम्याराद्, वधानर्हापराधिवत् ? ।। ७१९ ॥ अथाऽधिष्ठायकानस्य, सहस्रं यक्षकानमृन् । दलयाम्याशु दण्डेन, घरदेन कणानिव ? ॥ ७२०॥ १ वडवाग्निः। २ दृष्ट्वा । ३ चक्रस्य । ४ उत्पलपत्रिकावत् । Jain Education Internal For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410