Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 105
________________ ७. नैयायिकाभिमतस्यानुमानस्य निरसनम् । ७३. "विशेषेऽनुगमाभाव" । विशेषो हि अनुमानैकग्राहयोऽर्थः तेन सह सम्बन्धो नावगतः। तदनवगतौ न लिङ्गात् लिङ्गा(लिङ्गि)गतिः । नच षट्पदार्थव्यतिरिक्तं धर्मान्तरमस्ति स्वयमनभ्युपगमात्, अभ्युपगमे वा अभ्युपेतहानम् । यदि च कारणपूर्वकत्वं धर्मान्तरं तदनुमीयते लिङ्गात् ; न तर्हि 5 कारणमवगतं दिगीश्वरादि । अथ कारणपूर्वकं कार्यमेव प्रतीयते; तदेतत् प्रज्ञामान्धविचेष्टितम् । कथम् ? तत्स्वरूपस्य प्रत्यक्षावगाहितदेहस्य किमनुमानेन ? अत्रापि तदेव उपनतम् - 'सामान्ये सिद्धसाधनम् समानं प्रत्यक्षानुमानविषयत्वे सामान्यमित्यपदिश्यते, तस्मिन्10 सामान्ये साध्यमाने साधनवैफल्यमापद्यते । किंच, यद्यनुमानादपि कार्य प्रत्येति; कारणं न केनाप्यवद्योतितं स्यात् । तदनवद्योतने कालादिव्यवहारविरहः स्यात् ।। तथा, कारणदर्शनेन कार्यानुमानमपि न संभवति । भवतां पक्षे कारकाणां सामग्र्यं जनकम् । तचेन्न प्रत्यक्षं न च साध-15 नान्तरं विद्यते तत्स्वरूपावेदकम् । अपि च, लिङ्गग्रहणानन्तरं व्याप्तिस्मरणम् , तदनु परामर्शज्ञानम्, ततोऽनुमेयप्रतिपत्तिः । न च एतावन्तं कालं सामय्यवस्थानमस्ति । ___ अथ कारकैकदेशग्रहणे सति कार्यमनुमिमीषे; तयुक्तम् , कारकैकदेशरूप(शस्या)जनकत्वात् । जनकत्वयोगे सति20 जनकम् इत्यपदिश्यते । नच जनकत्वयुक्तस्य अनुमेयप्रतिपत्तिकाले अवस्थानमस्ति । न चाकारकं कार्य गमयति अतिप्रसङ्गात्। । [$ ४. कृतकत्वहेतुकस्यानित्यत्वानुमानस्याप्यघटमानत्वप्रदर्शनम् । ] तथा, कृतकत्वेन अनित्यत्वानुमानमपि नोपपद्यते , अनि-25 त्यत्वं हि स्वकारणसत्तासम्बन्धः, सत्ता वा, धर्मान्तरं वा, - १० त.

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190