Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 346
________________ ३१७ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् यत्किञ्चित् पदवाक्यार्थादि गृहीतं तन्न कदाचिन्नश्यतीति, कोष्ठप्रक्षिप्तधान्यवत् । बीजबुद्धित्वं स्वल्पमपि दर्शितं वस्तु अनेकप्रकारेण गमयति । तद्यथा पदेन प्रदर्शितेन प्रकरणेनोद्देशकादिना सर्वमर्थ ग्रन्थं चानुधावति । परचित्तं जानाति । अभिलषितमर्थ प्राप्नोत्येवं अनिष्टं च नैवानोति । एवमाद्योऽतिशयाः शुभानुभावादपरिमितास्तस्य तस्यामवस्थायां प्रादुःष्यन्तीति॥ भा०-वाचिकं क्षीरासवित्वं मध्वालवित्वं वादित्वं सर्वरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथा विद्याधरत्वमाशीविषत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति ॥ ____टी०-वाचिकमप्यतिशयवत्त्वम् । तस्य क्षीरास्रवित्वं शृण्वतस्तदीयवचनं क्षीरमिव स्वदते । एवं मम्वास्रवित्वम् । विद्वत्संसन्मध्येष्वपराजितत्वं वादित्वम् । सर्वेषां म्लेच्छमृग-पशु-पक्षिप्रभृतीनां रुतार्थज्ञत्वम् । सर्वान् सत्त्वानबुद्धिकानपि बोधयतीति सर्वसत्त्वावयोधनम् । आदिग्रहणादिक्षुरसास्रवित्वादिग्रहणम्। तथा विद्याधरत्वं महाविद्याः सर्वा एव तस्य तदा स्वयमेवोपतिष्ठन्ते । आशीविषत्वं कर्मजातिभेदादनेकप्रकारम् । भिन्नाक्षराणि किश्चिन्यूनाक्षराणि चतुर्दश पूर्वाणि सम्पूर्णानि वा तद्धारणत्वम् ॥ भा०–ततोऽस्य निस्तृष्णत्वातू तेष्वनभिष्वक्तस्य मोहक्षेपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतः प्रहीयते। ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तर्मुहूर्तेन ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणि युगपदशेषतः प्रहीयन्ते । ततः संसारबन्धबीजबन्धननिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । ततो वेदनीय-नामगोत्राऽऽयुष्यक्षयात् फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगात् हेत्वभावाचोत्तरस्याप्रादुर्भावाच्छान्तः ॥ ___टी०-ततोऽस्येत्यादि । तेषु-अतिशयेष्वनभिष्वक्तस्य-अनुपजातगाद्धर्थस्य मोहक्षपकपरिणामावस्थस्येति । अविरतसम्यग्दृष्टयादिस्थानवर्तिनो मोहक्षपणाभिमुखस्य श्रेण्या निरवशेषमोहक्षये सति ज्ञानावरणादिप्रहाणे च संसारबीजबन्धन-मोहज्ञानावरणादि तेन निर्मुक्तः केवली भवति । ततश्च फलवन्धनं वेदनीयादिचतुष्कं तन्मोक्षणापेक्षस्तेनापि वेदनीयादिना अशेषफलबन्धनेन विमुक्तो ध्यानाग्निनिर्दग्धपूर्वोपात्तकर्मेन्धनो निरिन्धन इवाग्निः पूर्वोपात्तो भव:-औदारिकादिकायस्तवियोगादुत्तरस्य च कायस्य हेत्वभावात् संसारे पुनरप्रादुर्भावाच्छान्तः परमालादमुपगतः कारणापेक्षम् १ शयत्वम् ' इति ज-पाठः। २'क्षय' इति ङ-पाठः। ३ 'बन्धनिर्मुक्तः' इति घ-पाठः । ४ 'हेतुभावात्' इति हु-च-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396