Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 171
________________ १५४ १०-७ साध्योऽनुगम्यश्चिन्त्यो व्याख्येय इत्येकार्थत्वम् । तत्र 'पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च द्वौ नयौ भवतः । तत्कृतोऽनुयोगविशेषः । तद्यथा । क्षेत्रम् । कस्मिन् क्षेत्रे सिध्यतीति । प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्म प्रतिपञ्चदशसु कर्मभूमिषु जातः सिध्यति । संहरणं प्रति मानुषक्षेत्रे सिध्यति । तत्र प्रमत्तसंयताः संयतासंयताश्च संह्रियन्ते । श्रमण्यपगतवेदः परिहारविशुद्धिसंयतः पुलाकोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति न संह्रियन्ते । ऋजुसूत्रनयः शब्दादयश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः, शेषा नया उभयभावं प्रज्ञापयन्तीति ॥ कालः । अत्रापि नयद्वयम् । कस्मिन्काले सिध्यतीति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च । जन्मतोऽवसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च जातः सिध्यति । एवं तावदविशेषतः । विशेषतोऽप्यवसर्पिण्यां सुषमदुःषमायां संख्येयेषु सर्वेषु शेषेषु जातः सिध्यति । दुःषमसुषमायां सर्वस्यां सिध्यति, दुःषमसुषमायां जातो दुःषमायां सिध्यति, न तु दुःषमायां जातः सिध्यति, अन्यत्र नैव सिध्यति । संहरणं प्रति सर्वकालेष्ववसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति ।। ___ गतिः । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगत्यां सिध्यति । शेषास्तु नया द्विविधा अनन्तरपश्चात्कृतगतिकश्च एकान्तरपश्चात्कृतगतिकश्च । अनन्तरपश्चात्कृतगतिकस्य मनुष्यगत्यां सिध्यति । एकान्तरपश्चात्कृतगतिकस्याविशेषेण सर्वगतिभ्यः सिध्यति । ___ लिङ्गं स्त्रीपुंनपुंसकानि । प्रत्युत्पन्नभावप्रज्ञापनीयस्यावेदः सिध्यति । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतगतिकस्य परम्परपश्चात्कृतगतिकस्य च त्रिभ्यो लिङ्गेभ्यः सिध्यति । ___ तीर्थम् । सन्ति तीर्थकरसिद्धाः तीर्थकरतीर्थे, नोतीर्थकरसिद्धाः तीर्थकरतीर्थे, अतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकरीतीर्थे सिद्धा अपि । लिङ्गे पुनरन्यो विकल्प उच्यते । द्रव्यलिङ्गं भावलिङ्गमलिङ्गमिति । १. पूर्व-अतीतः । २. प्रत्युत्पन्नः-वर्तमानः । ३. तीर्थकरीतीर्थेऽप्येत एव विकल्पाः । यत आह ‘एवं तित्थंकरी तित्थे' इति (सिद्धप्राभृतगाथा ३०)।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218