Book Title: Syadvad Rahasya
Author(s): Yashovijay Mahopadhyay
Publisher: Bharatiya Prachyatattv Prakashan Samiti

View full book text
Previous | Next

Page 150
________________ aanmmmmmm प्रलो०१] यशोविजयोपाध्यायविरचितम् भावाभावत्वान्नातिरिच्यत इत्यप्याहुरिति नूतननैयायिकानुसृतः पन्थाः । इत्यन्योन्याभावाऽव्याप्यवृत्तित्वव्यवस्थापनं न्यायनयेन । [जैनमतेऽन्योन्याभावस्वरूप-तदव्याप्यवृत्तितानिरूपणम् ] अथ स्वनयेन तद् व्यवस्थापयामः । अस्माकं तु भेदो वैधान्नातिरिच्यते, क्लुप्तेनैवोपपत्तावतिरिक्तकल्पनाऽयोगात् । न च पटत्वाधनन्तधर्मेषु घटभेदत्वकल्पनापेक्षयाऽतिरिक्त एव तत्र तत्त्वकल्पनौचित्यम् , तथापि पटत्वादिना विनिगमनाविरहादतिरिक्ततद्भेदभेदादिधाराकल्पने गौरवाच्च । इत्थं च भेदत्वमतद्वयावर्तकत्वम् , तच्चानुवर्तकत्ववत् स्वभावत एवेति प्राचां वचो व्याख्यातम् , स्वभावत इत्यस्य स्वधर्मत इत्यर्थकत्वात् । न चैवमपि 'स्थाणुः पुरुषो न वेति संशयानुपपत्तिस्तस्य स्थाणुत्वरूपपुरुषभेदग्रहात्मकत्वादिति वाच्यम्, तत्र स्थाणुत्वस्य स्वरूपतोग्रहेऽपि दोषप्राबल्यात्तवृत्तिभिन्नत्वेनाऽग्रहात् , पुरुषवृत्तिभिन्नत्वेन तत्तद्धर्मग्रहस्यैव पुरुषतादात्म्यसंशयनिवर्तकत्वात् । तथा च श्यामवैधयं रक्तत्वादिकमेव तभेदः पर्य्यवस्यति । तस्य चाऽव्याप्यवृत्तित्वम् अवच्छिन्नतादात्म्ययोगित्वं लाघवात् , न तु स्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगित्वं, त्रैकालिकतादात्म्यपरिणामनिवृत्तेरेवात्यन्ताभावत्वेन तदात्मनि तदत्यन्ताभावाऽयोगाच्च। नन्वेवं श्यामदशायां घटे न रक्तिमिति प्रयोगो न स्यात् सप्तमीसमभिव्याहृतनात्यन्ताभावस्यैव बोधात् , तस्य रक्तप्रागभावादिविषयकत्वे पुनरन्तरा श्यामे रक्ततादशायामपि तदापत्तिः । अत एव न तस्य प्रतियोगितामात्रेण रक्तविशिष्टाभावावगाहित्वमपि । तादृशतदवगाहिज्ञानस्य रक्तवत्ताज्ञानाऽप्रतिबध्यत्वात् । नन्वेवं ध्वंसप्रागभावयोरेव रक्तत्वाधवच्छिन्नप्रतियोगिताकत्वमव्याप्यवृत्त्यस्तु तथा च रक्ततादशायां प्रागभावादौ तदभावादेव न तथाधीरिति चेत् ? न, अनन्तध्वंसप्रागभावादिषु रक्तत्वावच्छिन्नप्रतियोगिताकत्व-तदव्याप्यवृत्तित्वकल्पनापेक्षया क्लुप्तात्यन्ताभावस्यैव तत्र सामयिकसंबन्धकल्पनौचित्यमिति चेत् ? अत्र वदन्ति । परेषां घटेन सह रक्तत्वाभावसम्बन्धस्तावद्रतत्वाभावस्वरूप एव, घंटादेरननुगतत्वात्सम्बन्धान्तराऽयोगाच्च । तस्य च सामयिकत्वेऽनित्यत्वापत्तिः । अथ न रक्तत्वाभावमात्रमेव तत्सम्बन्धस्तथा सति पटीयरक्तत्वाभावेन रक्तेऽपि घटे तदभावव्यवहारप्रसङ्गात् , किन्तु विशिष्टप्रतीतिजननयोग्यतावच्छेदकावच्छिन्नस्यैव तस्य तत्त्वं, तद्योग्यतावच्छेदकं चात्र प्रतियोगिदेशान्यदेशत्वम् । तथा चात्र प्रतियोगिदेशान्यत्वस्य सामयिकत्वं निर्बाधमिति चेत् ? न, प्रतियोगिदेशत्वघटकसम्बन्धगवेषणयानवस्थानादाकाशादिदेशाऽप्रसिद्धेश्च । ___ अथ यथा वायौ रूपसमवायसत्त्वेऽपि समवायसम्बन्धावच्छिन्नरूपाधारताभावाद्वायौ रूपमिति न धीः तथान्तरा श्यामे घटे रक्ततादशायां रक्कत्वात्यन्ताभावविशेषणतासत्वेऽपि विशेषणता स्या. र. १२

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182