Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 121
________________ Mascidiaadimade श्री सूत्रकृताङ्गसूत्रम् aaaaaaa११६] आप्तगामी सर्वज्ञोपदिष्टमार्गगामी मुनिः मृषां न ब्रूयात् सत्यमपि प्राण्युपघातकं न ब्रूयात् । एतद् मृषावादादिवर्जनं कृत्स्नं समाधि निर्वाणं चाहुः वर्धमानस्वामिनः, तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयं न कुर्यात्, न चाऽपरेण कारयेत् कुर्वन्तमन्यमपि च नानुजानीयादिति ।।२२।। अथोत्तरगुणानधिकृत्याहसुद्धे सिया जाए न दूसएज्जा, अमुच्छिते ण य अज्झोववण्णे । धितिमं विमुक्के ण य पूयणट्ठी, न सिलोयगामी य परिवएज्जा ||२३|| ___ उद्गमोत्पादनैषणाभि: शुद्धे स्यात् कदाचित् जाते प्राप्ते सरसनीरसपिण्डे सति साधु रागद्वेषाभ्यां न दूषयेत्, तत्रापि रागस्य प्राधान्यख्यापनार्थमाह-न मूर्च्छित: अमूर्छितः सन् गृद्धिमकुर्वन्नाहारयति, तथा न च अध्युपपन्न: पौन:पुन्येनाऽभिलषमाणः आहारयेत्, अपि तु संयमयात्रार्थमाहारयेत् तथा धृतिमान् ग्रन्थेन च विमुक्तः सन् पूजनार्थी न भवेदिति । न च श्लोक: कीर्तिस्तद्गामी = तदभिलाषुकः श्लोकगामी परिव्रजेत् । र्कीयर्थी न काञ्चन क्रियां कुर्यादित्यर्थः ।।२३ ।। उपसंहरन्नाहनिक्खम्म गेहाउ निरावकंखी, कायं विओसज्ज नियाणछिण्णे। नो-जीवितं नो मरणाभिकंखी, चरेज्ज भिक्खू वलया विमुक्के ॥२४॥ त्ति बेमि । . गेहात् निष्क्रम्य जीवितेऽपि निराकाङ्क्षी सन् कायं व्युत्सृज्य निष्पतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत् तथा-न जीवितं नापि मरणमभिकाङ्क्षी । भिक्षुः वलयात्=कर्मबन्धनात् विप्रमुक्त: संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् ।।२४।। || दशममध्ययनं समाप्तम् ।। ।। अथैकादशं मार्गाध्ययनम् ।। अनन्तराध्ययने सम्यग्दर्शनज्ञानचारित्रलक्षणो भावसमाधिरुक्तः । स एव भावमार्गः मोक्षप्रापकत्वादत्राध्ययने प्रतिपाद्यतेकयरे मग्गे अक्खाते, माहणेण मतीमता। जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ।।१।। जम्बूस्वामी सुधर्मस्वामिनं पृच्छति-कतरो मार्ग आख्यातः माहनेन मतिमता श्री वर्धमानस्वामिना ? यं ऋजुंमार्ग प्राप्य मुमुक्षुः दुरुत्तरं दुस्तरम्ओघं संसारसमुद्रं तरतीति ।।१।। स एव जम्बूस्वामी पुनरप्याह

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162