Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२८९
[जातपुत्रः, पुत्रजातः ] जातः पुत्रो यस्य सः । [जातदन्तः, दन्तजातः ] जाता दन्ता यस्य सः । [जातश्मश्रुः, श्मश्रुजातः ] जातं श्मश्रु यस्य सः । [पीततैलः, तैलपीतः] पीतं तैलं येन सः ।
[ पीतघृतः, घृतपीतः ] पीतं घृतं येन सः । [ पीतमद्यः, मद्यपीतः ] पीतं मद्यं येन सः । [पीतविषः, विषपीतः ] पीतं विषं येन सः । [ऊढभार्यः, भार्योढः ] ऊढा भार्या येन सः । [ गतार्थः, अर्थगतः ] गतोऽर्थो यस्य सः । [छिन्नशीर्षः, शीर्षच्छिन्नः] छिन्नं शीर्षं यस्य सः । [ पीतदधिः, दधिपीतः ] पीतं दधि येन सः । अनेन क्तान्तं नाम विकल्पे निपतति ||छ ||
प्रहरणात् ||३|१|१५४।।
[प्रहरणात्] प्रह्रियतेऽनेनेति प्रहरणम्, तस्मात् । [ कलितप्रहरणः प्रहरणकलितः ] कलितं प्रहरणमनेन सः ।
[उत्खातखङ्गः, खड्झेत्खातः ] उत्खातं खङ्गं येन सः ।
[आकृष्टधन्वा, धनुराकृष्टः] आकृष्टं धनुरनेन सः । 'धनुषो धन्वन्' (७।३।१५८) अत्समासान्तः धन्वनादेशः । प्रथमा सि । ‘नि दीर्घः' (१।४।८५) दीर्घत्वम् ।
[ उद्यतमुश ( स ) ल:, मुश ( स ) लोद्यतः ] उद्यतं मुसलं येन सः ॥ छ ॥
[इन्द्वादिभ्यः] इन्दुरादिर्येषां ते = इन्द्वादयस्तेभ्यः ।
[ चन्द्रमौलिः ] चन्द्रो मौलौ यस्य सः ।
[ शशिशेखरः ] शशी शेखरे यस्य सः ।
[ पद्मनाभः ] पद्मं नाभावस्य सः ।
5 श० म० न्या० उत्खातः खड्गोऽनेन ।
न सप्तमीन्द्वादिभ्यश्च ।।३।१।१५५ ।।
[ऊर्णनाभः] ऊर्णं नाभावस्य सः । 'नाभेर्नाम्नि ' ( ७।३।१३४) अप्समासान्तः । ' अवर्णवर्णस्य' (७।४।६८) इलोपः ।
[ पद्महस्तः] पद्मं हस्ते यस्य सः ।
[ शङ्खपाणिः ] शङ्खः पाणावस्य ।
[दर्भपवित्रपाणिः] दर्भस्य पवित्रम्, दर्भपवित्रं पाणौ यस्य सः ।
Jain Education International
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346