Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० २. सू० १०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५४६
खित्प्रत्ययान्ते उत्तरपदे परे लुप् न भवति । स्त्री स्त्रियं वात्मानं मन्यते स्त्रीमन्यः स्त्रियंमन्यः, श्रियंमन्यः, भ्र वंमन्यः, नरंमन्यः, रायंमन्यः, गांमन्यः, नावंमन्यः । अथ श्रियमात्मानं मन्यते श्रियंमन्यं कुलमित्यत्र नपुंसकलक्षणोऽमो लोपः कस्मान्न भवति ? उच्यते-श्रीशब्दस्यात्मसमानाधिकरणस्य नपुंसके वृत्त्यभावादाविष्टलिङ्गत्वाच्च न भवति, अन्ये त्वाहुः,-यथा प्रष्ठादयः शब्दा 5 धवयोगात् स्त्रियां वर्तमानाः स्वलिङ्ग विहाय स्त्रीलिङ्गमुपाददते, तथा श्रीशब्दः कुले वर्तमानः स्वलिङ्गपरित्यागेन वर्तते, ततो नपुंसकलक्षणं ह्रस्वत्वममो लुप् च भवति, श्रियंमन्यं कुलमिति । नचायं नपुंसकलक्षणस्य लोपस्यापवादः, किंतु ऐकार्थ्यलक्षणस्योत्तरपदग्रहणात् । नामिग्रहणं किम् ? शंमन्यः, क्ष्ममन्यः, वाग्मन्यः । एकस्वरादिति किम् ? हरणिमन्या,10 बुधमन्या। खितीति किम् ? स्त्रीमानी 'मन्याण्णिन्' [५. १. ११६.] ।। ६ ।।
न्या० स०-न नाम्ये। नाम्यन्तादिति व्याख्याने नाम्यवयवयोगात् समुदायोऽपि नामी। स तु अवयवोऽन्तर्मध्ये च संभवतीति । ततः संभवे व्यभिचारे च कविशेषणमर्थवत् इति न्यायात्, 'विशेषणमन्तः' [ ७. ४. ११३. ] इत्यन्तत्वम् । खित्प्रत्ययान्त इति नन्वत्र 'सप्तम्या आदिः' [७. ४. ११४.] इति खिदादावुत्तरपदे इति15 प्राप्नोति ? न, खिदादेरुत्तरपदस्यासंभवादिति । ननु 'स्त्रियंमन्य' इत्यत्राऽलुपि सत्यां 'कर्मणि कृतः' [२.२.८३.] इति सूत्रेण षष्ठी कथं न भवति यतोऽग्रे कृत्प्रत्ययोऽस्ति ? उच्यते, प्रत एवामोऽलबविधानात षष्ठी न भवति । अन्यथा ह्यमोऽल्प कथं विधीयत इति । न चायमिति नन्वनेन निषेधः प्राप्नोति तत्कथममोऽलुबित्युक्तमन्यरित्याशङ्का । ऐकार्यलक्षणस्येति · अयमपवाद उत्तरपदे एव प्राप्तस्य बाधक इत्यर्थः ॥ ३. २.६ ॥
20
असत्वे
सेः ॥ ३. २. १० ॥
असत्त्वे विहितो यो ङसिः तस्योत्तरपदे परे लुप् न भवति । स्तोकान्मुक्तः, अल्पान्मुक्तः, कृच्छ्रान्मुक्तः, कतिपयान्मुक्तः, अन्तिकादागतः, अभ्याशादागतः, सविधादागतः, दूरादागतः, विदूरादागतः, विप्रकृष्टादागतः, 'क्त नासत्त्वे' [ ३. १. ७४. ] इति समासः। असत्त्वे इति किम् ? 25 स्तोकभयम् स्तोकापेतः। उत्तरपद इत्येव ? निष्क्रान्त:-स्तोकान्निस्तोकः ।। १० ॥
Loading... Page Navigation 1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658