Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 181
________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १६९ .. इक्कस्सइक्कमे खलु वयस्स सवाणइक्कमो जइणो। इयरस्स उ तस्सेव य पाठंतरमो हवा किंच ॥३११॥ [एकस्यातिक्रमे खलु सर्वेषामतिक्रमो यतेः। इतरस्य तु तस्यैव पाठान्तरमेवाथवा किंच ॥३११॥ एकस्यातिकमे केनचित्प्रकारेण व्रतस्य सर्वेषामतिक्रमो यतेस्तथाविधैकपरिणामत्वात् । इतरस्य तु श्रावकस्य तस्यैवाधिकृतस्याणुव्रतस्य न शेषाणां विचित्रविरतिपरिणामात् पाठान्तरमेवाथवा द्वारगाथायां तच्चेदं किं च "सव्वं ति भाणिऊणं" इत्यादिग्रन्थान्तरापेक्षमन्यत्रेति । • उक्तमानुषङ्गिकं प्रकृतं प्रस्तुम इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति। तानाह .. मणवयणकायदुप्पणिहाणं सामाइयम्मि वज्जिज्जा। सइअकरणयं अणवट्ठियस्स तह करणयं चेव ॥३१२॥ [मनोवाकायदुःप्रणिधानं सामायिके वर्जयेत्।। स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव ॥३१२॥] मनोवाकायदुःप्रणिधानं मनोदुष्टचिन्तनादि सामायिके कृते सति वर्जयेत् स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव वर्जयेत् । तत्र स्मृत्यकरणं नाम सामायिकविषया या स्मृतिस्तस्या अनासेवनमिति एतदुक्तं भवति प्रबलप्रमादान्नैव स्मरत्यस्यां वेलायां सामायिक कर्तव्यं कृतं न कृतमिति वा स्मृतिमूलं च . १ सव्वं ति भाणिऊणं विरई खलु जस्स सब्विया नत्थि । .. सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥.

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228