Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 473
________________ श्राद्धविधि पञ्चमः प्रकरणम् प्रकाशः एकभक्ताशिना भाव्यं तथा स्थण्डिलशायिना । तीर्थानि गच्छता नित्यमप्यतौ ब्रह्मचारिणा ॥ तदनु यथार्हदानादिना सन्तोष्याऽनुज्ञापयति क्षमापतिम् । प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थं देवालयान् ।। आकारयति सविनयबहुमानं स्वजनसाधर्मिकादिवर्गम् । निमन्त्रयते सभक्ति सद्गुरून् । प्रवर्त्तयत्यमारिम् । निर्मापयति चैत्यादौ महापूजादिमहोत्सवम् । ददाति निःशम्बलेभ्यः शम्बलं, निर्वाहनेभ्यो वाहनं, निराधारेभ्यः सद्वचनविभवाद्याधारम्, यथार्ह| सान्निध्यप्रदानविषयोद्घोषणापूर्वं सार्थवाह इव प्रोत्साहयति निरुत्साहमनसोऽपि, कारयति साडम्बरप्रौढतरगुरूदरचतुरकशरावक-ततपटपटमण्डपप्रौढकटाहि-चलत्कूपसरोवरादीन्, सज्जयति शकट-सेजवालक-रथपर्यङ्किकाप्रौष्ठिककरभतुरगादीन्, आह्वयति श्रीसङ्घरक्षार्थमत्युद्भटाननेकसुभटान्, सन्मानयति कवचाङ्गकाद्युपस्कारार्पणेन तान्, प्रगुणयति गीतनृत्यवाद्यादिसमग्रसामग्रीम् । ततः करोति समुहूर्ते शुभशकुनमिनित्ताधुत्साहितः प्रस्थानमङ्गलम् । तत्र मीलयति सकलसमुदाय, भोजयति विशिष्टविशिष्टतरभोज्यताम्बूलादिभिः, परिधापयति पञ्चाङ्गमडिदुकूलादिभिः । विधापयति सुप्रतिष्ठधर्मिष्ठपूज्यभाग्यवत्तरनरेभ्यः श्रीसङ्घाधिपत्यतिलकम् । विदधाति सङ्घपूजादिमहामहम् । निर्मापयत्येवमन्येभ्योऽपि यथोचितं सङ्घाधिपत्यादितिलकमहम् । स्थापयति महाधराग्रेसरपृष्ठिरक्षसङ्घाध्यक्षप्रमुखान् । प्रख्यापयति श्रीसङ्घचलनोत्तरणादिसर्वसङ्केतव्यवस्थाम् । सम्भालयति मार्गे सर्वान् सार्थिकान् । विश्राणयति तेषां शकटाङ्गभङ्गाद्यन्तराये सर्वशक्त्या सान्निध्यम् । विधत्ते प्रतिग्राम प्रतिपुरं चैत्येषु च स्नात्रमहाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णचैत्योद्धारणादिचिन्तां च । निर्मिमीते तीर्थदर्शने स्वर्णरत्नमौक्तिकादि-वर्धापन भः, परिधापयति पञ्चाङ्गमीडीपयत्येवमन्येभ्योऽपि यथाचव्यवस्थाम् । सम्भालया ४४६

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524