Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीशीतलजिनस्तुतयः 159 अतमसा / रते रागो रतरागः 'तत्पुरुषः' / रतरागश्च मदश्च रतरागमदौ 'इतरेतरद्वन्द्वः' / रतरागमदयोररिः रतरागमदारिः 'तत्पुरुषः' / तेन रतराग० / इति काव्यार्थः / / 39 / / (2) सि० वृ०-जयतीति / जिनेन-सर्वज्ञेन प्रथितं-प्रख्यापितं मतं-श्रुतं अत्र-अस्मिन् जगति जयतिसर्वोत्कर्षेण वर्तत इत्यर्थः / 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र 'जयति' इति क्रियापदम् / किं कर्तृ ? / मतम् / कथंभूतम् ? / प्रथितम् / केन ? / जिनेन / कुत्र ? | अत्र / कथंभूतेन जिनेन ? / 'असारतरागमदारिणा' अतिशयेन असारः असारतरः-अतिकुत्सितो य आगमः चार्वाकशाक्यादिप्रवचनमित्यर्थः, तं दारयति अर्थात् हेतुयुक्त्यादिभिः निराकरोतीत्येवंशीलः असारतरागमदारी, तेन असारतरागमदारिणा / असारतरश्चासौ आगमश्चेति 'कर्मधारयः' / पुनः कथंभूतेन ? / 'अतमसा' नास्ति तमः-पापं अज्ञानं वा स अतमाः तेन / पुनः कथंभूतेन ? | रतरागमदारिणा' रतं-मैथुनं रागो-द्रव्यादावभिलाषः, यद्वा रते रागो रतरागः, मदो जात्याधुत्थोऽभिनिवेशः, रतं च रागश्च मदश्च रतरागमदाः ‘इतरेतरद्वन्द्वः” तेषां तयोर्वा अरिणा-वैरिणा, सर्वात्मना तदुच्छेदकत्वादितिभावः / केषाम् ? / 'मनीषिणां' मनीषा-प्रज्ञा विद्यते येषां ते मनीषिणः, तेषां मनीषिणाम् / मतं पुनः कथंभूतम् ? / 'कल्पितकल्पतरूपमं' कल्पिता समर्थिता कल्पतरुणाकल्पवृक्षण उपमा-साम्यं यस्य तत् कल्पितकल्पतरूपमम् / यदिवा कल्पितेषु-मनःसंकल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् तथेत्यर्थः / / 39 / / . (3) सौ० वृ०-जयतीति / मतं-प्रवचनं जयति इत्यन्वयः / 'जयति' इति क्रियापदम् / 'किं कर्तृ ? / 'मतम्' / 'जयति' सर्वातिशयेन वर्तते इत्यर्थः / किंविशिष्टं मतम् ? / 'प्रथितं' उक्तम् / केन ? / 'जिनेन' / केषाम् ? / 'मनीषिणाम्' प्राज्ञानां गणधराणाम् / पुनः किंवि० मतम् ? / कल्पिता-समर्थिता सर्वाभीष्टदानेन कल्पतरूणां-सुरतरूणां उपमा-उपमानं येन तत् ‘कल्पितकल्पतरूपमम्' / किंविशिष्टेन जिनेन ? / असारतरः-अतिशयेन निःसारः तादृशो य आगमः-मिथ्यादृक्प्रणीतकुशास्त्ररूपः तं प्रति दृणाति-विदारयति यः स तेन 'असारतरागमदारिणा' | पुनः किंवि० जिनेन ? | 'अतमसा' अज्ञानपापरहितेन / पुनः किंवि० जिनेन ? / रतं-सुरतं तस्य रागः-स्नेहः मदः-अहंकारः जात्यादिर्वा तयोः अरिःशत्रुरिव रतरागमदारिः तेन रतरागमदारिणा / कुत्र ? / अत्र' विश्वेऽस्मिन् / जिनेन कथितं मतं जयति / इति पदार्थः / / अथ समासः-कल्पतरूणां उपमा कल्पतरूपमा, कल्पिता कल्पतरूपमा यस्य तत् कल्पितकल्पतरूपमम् / अतिशयेन असारः असारतरः, असारतरश्वासौ आगमश्च असारतरागमः,

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234