Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
"नानाविशालगणितागमशिल्पशास्त्राद्युत्पत्तिमुख्यभुवमद्भुतविक्रमाढ्याम् । सेतूर्ध्व कानन निवासकृताधिवासां वन्दे astroad परदेवतां मे ॥" (पूर्वभागः पा० १. लो० ४)
इत्येतद्घटक' सेतू का नन' पदस्यार्थपर्यालोचनायामस्य श्रीकुमारस्य देशसंज्ञा भाषाव्यपदेशे 'चिरमेकाटु' इति प्रतिभाति । स चायं देशः कोच्चिराज्यान्तर्गते तलप्पळ्ळितालूग्घटिते कस्मिंश्चिदुत्तरस्मिन् भाग इत्यस्मसुहृदां ब्रह्मश्रीकाणिप्पैयूर् शङ्करन्नम्पूरिमहाशयानां मुखतो भाषणाज्ज्ञायते ।
महामहोपाध्यायब्रह्मश्रीगणपतिशास्त्रिमहाशयैरध्यक्षचरैरस्मद्गुरु
चरणैः पूर्वभागनिवेदनायां -
२
"उत्तरभागस्तु सर्वादर्शसम्पत्साह्येन संशोध्यानतिचिरेण प्रकाश्येत ।"
इति कृतां प्रतिज्ञां सफलयितुकामेन मया तदनुग्रहात् समुपलब्धैरादर्शैः संशोध्य प्रकाश्यमानोऽयमस्तु सतां प्रसादाय ।
एतत्संशोधनमादशश्चतुरः समाश्रित्य निरवर्त्यत ।
तत्र प्रथमः -- अनन्तशयनस्थमहाराजग्रन्थशालीयः क-संज्ञः समयः त्रिशतवर्षवृद्धः ।
द्वितीयः -- तिरुवल्ला कुळिकाहिलं ब्रह्मश्री पि. नारायणभट्टतिरिस्वामिकः ख- संज्ञः मध्ये लुप्तः वर्षशतकानधिकपर्युषितः । तृतीयः कल्कुलं मणलिक्करमठाधिपतिब्रह्मश्री केशवस्वामिकः ग- संज्ञः समग्रो द्विशतवर्षेभ्यः प्राचीनः ।
तुरीयः -- कुन्नत्तनाटु ओळवूर श्रीमन्नारायणन्नम्पियारस्वामिकः घ- संज्ञः द्वाविंशतेरापश्चविंशं चतुर्भिः, पञ्चत्रिंशेन चाध्यायैः स म्पुटितः द्विशतवर्षपर्युषितः ।
के. साम्बशिवशास्त्री.
अनन्तशयनम्,
२४-१२-१०४.}

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 282