Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 99
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) 92 . तत्र रता अनुरागिणी सा पूर्वोक्ता कोशा अपि गणिका वेश्या अपि सम्यक् यथोचितम् शीलम् शीलगुणोपेतद्वादशव्रतं देशविरतिं आराध्य संसेव्य पत्युः स्वामिनः श्रीस्थूलभद्रस्य स्नेहात् प्रेम्ण इव इत्युत्प्रेक्षायाम् स्राक् झटिति . दिविषदां देवानां धाम स्वर्ग जगाम ययौ / तत्र स्वर्गे देवलोके व्यापद्रहितम् व्यापद्-दुःखं तेन रहितं शून्यम् अतुलं निरुपमं सातम् सुखम् विशेषात् - साधारण स्वर्गिभ्यो विशिष्टतया आपत् प्राप्नोत्, जैनधर्मः आर्हतधर्मः प्राणिनाम् जीवानाम् अत्र इहलोके अमुत्र परलोके परस्मिन् भवे च सुखं कल्याणं प्रदिशति ददाति / / अथ ग्रन्थकर्ता स्वपरिचयार्थं कुरुपरिचयमाह - तारायन्ते ततमतिभृतोऽप्यन्यतीर्थ्या इदानीं, विश्वे विश्वे खलु यदमलज्ञानभानुप्रभायाम् / सोऽयं श्रीमानवनिविदितो रत्नसिंहाख्यसूरि - जर्जीयाद् नित्यं नृपतिमहितः सत्तपोगच्छनेता / / 129 / / व्याख्या - यदमलज्ञानभानुप्रभायाम् यस्य रत्नसिंहसूरेः अमलं निर्मलं ज्ञानमेव भानुः सूर्यः तस्य प्रभायाम् प्रकाशे इदानी सम्प्रति विश्वे संसारे ततमतिभृतः तता विस्तृता मतीः बुद्धीः बिभ्रति इति तथा भूता अपि विश्वे सर्वे अन्यतीर्थ्याः अन्यसम्प्रदायलोकाः तारायन्ते नक्षत्राणीव प्रतीयन्ते खलु निश्चयेन सः अयम् प्रसिद्धः श्रीमान् श्रियायुतः अवनिविदितः भूतलप्रसिद्धः नृपतिमहितः नृपतिभिः नरेन्द्रैः महितः पूजितः सत्तपोगच्छनेता सतः प्रवर्तमानस्य तपोगच्छस्य श्रीजैनश्वेताम्बरमूर्तिपूजकसाधुसम्प्रदाय विशेषस्य नेता नायक: रत्नसिंहाख्यसूरिः रत्नसिंह नामा आचार्यः नित्यं प्रतिदिनं जीयात् सर्वाभिभावको भूयात् / /

Loading...

Page Navigation
1 ... 97 98 99 100 101 102