Book Title: Shantinath Charitram Author(s): Ajitbprabhacharya Publisher: Unknown View full book textPage 5
________________ प्रथमः प्रस्तावः । दृष्ट्वा च विद्युदुदुद्योतेनाङ्गमस्य जलार्दितम् । सैवं 'विचिन्तयामास सत्या दर्भाग्रतीक्ष्णधीः ॥ ३७ ॥ नूनं दृष्टिभयादेष गोपयित्वाऽम्बरे पथि । नग्न एव समायातों वृथाऽऽत्मानं प्रशंसति ॥ ३८ ॥ अनया चेष्टया नैष कुलीनोऽपि विभाव्यते । तदस्य गृहवासेन मम हन्त विडम्बना ॥ ३८ ॥ इत्यन्तश्चिन्तया मन्दरागा तस्मिन् बभूव सा । तथापि सममेतेन गृहवासमपालयत् ॥ ४० ॥ कपिलस्य पिता सोऽथ ब्राह्मणः कर्मदोषतः । बभूव विभवतोपो भूरिविद्याधनोऽपि सन् ॥ ४१ ॥ ज्ञात्वा विभूतिमन्तं तं कपिलं लोकपूजितम् । श्रागात्प्राघुणकोऽन्येद्युस्तद्ग्टहेऽसौ धनाशया ॥ ४२ ॥ भोजनावसरे सोऽथ विभिन्नः समुपाविशत् । कपिलो निजतातस्य व्यपदिश्य मिषान्तरम् ॥ ४३ ॥ ततस्तस्या विशेषेणाभवद्भान्तिर्मनोगता । रहः पृष्टश्च विप्रोऽसौ तया शपथपूर्वकम् ॥ ४४॥ किमयं तात युष्माकमङ्गजो वा परो न्विति । तेनाऽपि सर्वमेतस्यै तदाख्यातं यथातथम् ॥ ४५ ॥ दत्त्वा यथोचितं किञ्चिद्दिसृष्टः कपिलेन सः । विप्रो जगाम धरणिजटाख्यो नगरे निजे ॥ ४६ ॥ (१) कहि चि- । ५Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 288