Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 41
________________ अपरेषामपि दर्शनानां देवतातत्त्वप्रमाणादिभिन्नतया बहुभेदाः प्रादुर्भवन्ति, तथापि परमार्थतस्तेषामेष्वेवान्तर्भावात् षडेवेति सावधारणं पदम् । ननु सङ्घटमानान्इयतो भेदानुपेक्ष्य किमर्थं षडेवेत्याह-मूलभेदव्यपेक्षया । मूलभेदास्तावत् षडेव षट्सङ्ख्यास्तेषां व्यपेक्षया तानाश्रित्येत्यर्थः । तानि च दर्शनानि मनीषिभिः पण्डितैतिव्यानि बोद्धव्यानि । केन प्रकारेणेति-देवतातत्त्वभेदेन । देवता = दर्शनाधिष्ठायिकाः, तत्त्वानि च मोक्षसाधनानि रहस्यानि, तेषां भेदस्तेन पृथक्पृथक् दर्शनदेवता दर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ॥२॥ (अव०) प्रसिद्धानि दर्शनानि षडेव । एवोऽवधारणे । यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तम् असियसयं किरियाणं अक्किरियवाईणमाह चुलसीई । अन्नाणी सत्तट्ठी वेणइआणं च बत्तीसं ॥ इत्यादि । मूलभेदापेक्षया मूलभेदानाश्रित्य, वैभाषिकसौत्रान्तिकबहूदककुटीचरहंसपरमहंसभट्टप्रभाकरादिसम्भवचैतदन्तर्गत एव । देवता = दर्शनाधिष्ठायकः । तत्त्वानि = रहस्यानि मोक्षसाधकानि ॥२॥ तेषामेव दर्शनानां नामान्याह बौद्धं नैयायिकं साङ्ख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ (सो०) अहो इति इष्टामन्त्रणे । दर्शनानां मतानाममूनि नामानीति सङ्ग्रहः । ज्ञेयानीति क्रिया अस्तिभवत्यादिवदनुक्ताप्यवगन्तव्या । तत्र बौद्धमिति बुद्धो देवतास्येति बौद्धं सौगतदर्शनम् । नैयायिकं पाशुपतदर्शनम् । तत्र न्यायः प्रमाणमार्गस्तस्मादनपेतं नैयायिकमिति व्युत्पत्तिः । साङ्ख्यमिति कापिलदर्शनम् । आदिपुरुषनिमित्तेयं सज्ञा । जैनमिति जिनो देवतास्येति जैनमार्हतं दर्शनम् । वैशेषिकम् इति काणाददर्शनम् । दर्शनदेवतादिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्या विशिष्टमिति वैशेषिकम् । जैमिनीयं जैमिनिऋषिमतं भाट्टदर्शनम् । चः समुच्चयस्य दर्शकः । एवं तावत् षड्दर्शननामानि ज्ञेयानि . .४.

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146