Book Title: Sarva Siddhanta Stava
Author(s): Jinprabhasuri, Somodaygani
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 47
________________ १४ [ मू०] वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्या । द्वीपाब्धिप्रज्ञप्तिं तन्दुलवैचारिकं च नुमः ॥ ३३ ॥ ( आर्या ) सर्वसिद्धान्तस्तवः (अव०) वीर० वीरस्तवः देवेन्द्रस्तवः गच्छाचारम् अपि च गणिविद्यां द्विपाब्धिप्रज्ञप्तिः तन्दुलवैचारिकं च वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति ||३३|| [मू० ] शिवाध्वदीपायोद्धातानुद्धातारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमो नमः १ ॥ ३४ ॥ (अनुष्टुप्) ( अव० ) शिवा० = मोक्षमार्गदीपाय उद्घा० उद्घातो= गुरुप्रायश्चित्तविशेषः । अनुद्वातस्तु तद्विपरीतो लघुरित्यर्थः, तयोरारोपणम्= उचितस्थाने प्रयोजनम् । तदेव आत्मा = स्वरूपं यस्य तस्मै उद्घाताऽनुद्धातारोपणात्मने । चित्रा - विविधा उत्सर्गापवादा? यत्र, उत्सर्गो = मुख्यमार्गः अपवादः=कारणे ३ प्रतिषिद्धसेवा । तस्मै निशीथं = मध्यरात्रस्तद्वद्वहोभूतं यदध्ययनं तन्निशीथं तस्मै निशीथाय आचाराङ्गपञ्चमचूडायै नमो नमः वीप्सायां द्वित्वम् ||३४|| [मू०] निर्युक्तिभाष्यप्रमुखैर्निबन्धैः सहस्त्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥३५॥ ( उपजातिः ) (अव०) निर्यु० निर्युक्तिभाष्यप्रमुखैर्निबन्धैः ग्रन्थैः १ सहस्र - शाखीकृतं=विस्तारितं वाच्यजातं यत्र । तं दशाध्ययनानां श्रुतस्कन्धं दशाश्रुतस्कन्धं परैः परमतिभिरनात्तगन्धम् । कल्पः - साध्वाचारस्तत्प्रतिपादको ग्रन्थोऽपि कल्पः । व्यवहारः प्रतीतार्थस्तत्प्रतिपादकग्रन्थोऽपि व्यवहारस्ताभ्यां सह वर्तते यः स सकल्पव्यवहारस्तं ईडे=स्तुवे ॥३५॥ =

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69