Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तस्मरणस्तवम् पुनः किं अजि० ? 'दीवसमुद्दमंदरदिसागयसोहिआ' । द्वीपा-जम्बूद्वीपादयः समुद्रा लवणसमुद्रादयः, मंदिरा गृहाणि प्रासादाश्च । दिग्गजाः प्रधानहस्तिनः, अष्टासु दिक्षु ये भवन्ति। ततो द्वन्द्वे कृते द्वीपसमुद्रमन्दिरदिग्गजास्तैः लक्षणैः शोभिता विराजिताः । पुनः किं० अजित ? 'सत्थियवसहसीहसिरिवच्छसुलंछणा' । स्वस्तिकः प्रसिद्धः । वृषभो-अनड्वान् । सिंहो-मृगराजः । श्रीः लक्ष्मीः, वृक्षस्तरुः । ततो द्वन्द्वे कृते स्वस्तिकवृषभसिंहश्रीवृक्षाः सुलांछनानि शोभनानि लक्षणानि येषां ते स० ॥३२॥ ललितकं नाम छन्दः। पुनः किं० अ० अजितशान्तिपादकाः । 'सहावलट्ठा' स्वभावेन लष्टाः शोभनाः स्वाभावलष्टाः । पुनः किं० अ० ? 'समप्पइट्ठा' समा प्रतिष्ठा प्रतिष्ठितिः येषां ते समप्रतिष्ठाः। पुनः किं० अ० । 'अदोसदुद्दा' । द्वैषैः रागद्वेषमोहैः दुष्टा दोषदुष्टा । न दोषदुष्टा अदोषदुष्टाः। पुनः किं० १० ? 'गुणेहिं जिट्ठा' । गुणैः सम्यक् ज्ञानदर्शनचारित्रैर्येष्ठाः। प्रशस्यतमा वृद्धतमा वा । पुनः किं० अ० ? 'पसायसिट्टा' प्रसादेन रागादिविगमनेन-लक्षणेन श्रेष्ठाः प्रसादश्रेष्ठाः। पुनः किं० अ० 'तवेन पुट्ठा' तपसा द्वादश प्रकारेण पुष्टा भृताः । पुनः किं० ? 'सिरीहिं इट्टा' श्रियो लक्ष्म्या शोभाया वा इष्टाः । पुनः किं० अ० ? 'रिसीहिं जुट्ठा' । ऋषिभिस्तपस्विभिर्जुष्टा सेविताः ॥३३॥ वाणवासियानाम छन्दः ॥ पुनः किं० अ०? 'तवेण धुअसव्वपावया' । तपसा द्वादशप्रकारेण धूतं सर्व पापकं यैस्ते तपसा धूतसर्वपापकर्मकाः । पुनः किं० अ० ''सव्वलोअहिअमूलपावया, सर्वलोकस्य हितस्य मूलानि आगामिभद्राणि सम्यक् ज्ञानदर्शनचारित्राणि तेषां प्रापकाः लंभकाः सर्वलोकहितमूलपापकाः ॥३४॥ अपरान्तिकानाम छन्दः॥ अथ अजितशान्तियुगलं स्तुवन् नन्दिषेणः उपसंहारमाह एवं तवषलविउलं, थुअं मए अजिअसंतिजिणजुअलं। ववगयकम्मरयमलं, गई गयं सासयं विमलं ॥३५॥ गाहा॥ व्याख्याः ---नंदिषेणो वक्ति, एवं पूर्वोक्तप्रकारेण 'मए' मया अजितशान्तिजिनयुगलं स्तुतं अजितशांतिजिनयोर्युगलं-युग्म-अजितशांतिजिनयुगलं । किं विशिष्टं तद् युगलं-तपोबलेन तपसः सामर्थेन विपुलं विशालं किं० अजितशान्तियुगलम् ? 'ववगयकम्मरयमलं । व्यपगतं कर्म च ज्ञानावरणीयाद्यष्टविधं रजश्व बध्यमानं, मलं च बद्धं कर्म यस्य यस्माद्वा व्यपगतकर्मरजोमलम् । पुनः किं० अ० ? 'सासयं गह गयं' शाश्वतीं गतिं मोक्षरूपां गतं प्राप्तम् । किं० गतिम् ? 'विमला' विगतपूर्वसंचितकर्ममलाम् । अथवा विपुलां पाठान्तरे । तत्र विस्तीर्णसुखरूपतया ॥३५।। गाथानाम छन्दः॥ अथ पुनरपि नन्दिषेणः प्रार्थनापूर्व तदेव युगलं स्तुवन्नाह तं बहुगुणप्पसार्य, मुक्खसुहेण परमेण अविसायं। नासेउ मे विसायं, कुणउ अ परिसावि य प्पसायं ॥ गाहा ॥३६॥ व्याख्याः-तत् अजितशान्तियुगलं 'मे' मम विषादं नाशयतु । च पुनः मोक्षसुखेन परमेण प्रधानेन अविसायं अवैक्लव्यं करोतु । च पुनः परिषदपि श्रोत्री प्रसाद अनुग्रहं करोतु । किं०तत् 'बहुगुणप्पसायं' । बहना गुणानां ज्ञानदर्शनचारित्राणां प्रसादो रागादिभिः मलव्यपायो यस्य तत् । अथवा बहुगुणो विपुलोपकारः प्रसादो वैमस्यं च यस्य तत् बहुगुणप्रसादम् गाथा इयं ॥३६॥ - अथ नंदिषणः प्रार्थनां कुर्वनाह त मोएउ अनंदि, पावेउ अनविसेणमभिनंदि। परिसावि य सुहनवि, मम प दिसउ संजमे नदि ॥३७॥ गाहा॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59