Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांखाकारिका । दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ । कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने । कारुण्यात् सांख्यमयी नौरिव विहिता प्रतरणाय ॥ अल्पग्रन्थ ं स्पष्टं प्रमाणसिद्धान्त हेतुभिर्युक्तम् । शास्त्रं शिष्य हिताय समासतोऽहं प्रवक्ष्यामि ॥ दुःखयेति । अस्या आर्य्याया उपोद्दातः क्रियते ॥ इह अगवान् ब्रह्मसुतः कपिलो नाम तद् यथा । सनकश्च सनन्दश्च तृतीयश्च सनातनः । आसुरि कपिलचैव वोढुः पञ्चशिखस्तथा । इत्येते ब्रह्मणः पुत्राः सप्त प्रोक्ता महर्षयः ॥ कपिलस्य सहोत्पना धर्मो ज्ञानं वैराग्यमैश्वर्य्यचेति । एवं स उत्पन्नः सन् अन्धतमसि मज्जज्जगदालोक्य संसारपारम्पर्येण मत्कारुण्यो जिज्ञासमानाय आसुरिगोत्राय ब्राह्मणाय इदं पञ्चविंशतितत्त्वानां ज्ञानम् उक्तवान् यस्य ज्ञानाद दुःखचयो भवति पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ 1 तदिदमाहुः । दुःखत्रयाभिघाताज्जिज्ञासेति । तत्र दुःखवयम् । आध्यात्मिकम् । श्रधिभौतिकम् । आधिदैविकञ्चति ॥ तत्राध्यात्मिकं द्विविधं शारीरं मानसं चेति । शारीरं वातपित्तश्लेष्मविपर्ययकृतं ज्वरातीसारादि । मानसं प्रियवियोगाप्रियसंयोगादि ॥ आधिभौतिकं चतुर्विधं भूतग्रामनिमित्त मनुष्य पशुमृगपतिसरीसृपदंशमशक यूका मत्कुणमत्स्य मकर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59