Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 524
________________ ४९४ संगीतरत्नाकरः खादिरं घनवेणूत्थं यद्वा कम्राचतुष्टयम् ॥ ११९२ ।। श्लक्ष्णं द्वयङ्गुलविस्तारं द्वादशाङ्गुलदैर्घ्यकम् । मध्ये पिण्डो यथाशोभं किंचिन्यूनस्ततोऽन्तयोः ।। ११९३ ।। यस्य तत्कम्रिकावायं तत्र द्वे द्वे तु कम्रिके । एकैकहस्तन्यस्ते ये तयोरेकैककम्रिकाम् ॥ ११९४ ।। मध्यमाङ्गुष्ठयोर्मूले धृत्वा प्रान्ते तयोः पुनः । अपरामपरां धृत्वा शिथिलां वादयेद्धिया ।। ११९५ ।। कम्पेन मणिवन्धस्य कम्रिकावादनं मतम् । पाटा: किटकिटामुख्यास्तत्र पाटान्तराण्यपि ॥ ११९६ ॥ कम्राणामन्तरं कृत्वानामया दक्षिणस्थया । तलघातागुष्ठमुष्टेवामस्येत्यपरे जगुः ॥ ११९७ ॥ इति कमालक्षणम् (सु०) कमां लक्षयति-खादिरमिति । खदिरेण जातं खादिरम् । घनवेणूत्थम् , घनोऽन्त:सारो यो वेणु:, तस्माजातं वा । श्लक्ष्णं मसृणम् ; द्वयङ्गुलविस्तारम् ; द्वयङ्गुलायाम, द्वादशाङ्गुलदीर्घ कम्राचतुष्टयं कर्तव्यम् । पिण्डस्तु मध्ये शोभामनतिक्रम्य क्रमेण कार्यः । प्रान्तयोरन्ते किंचिद्धीनः । यस्यैवं लक्षणं स्यात् तत् कम्रिकावाद्यं ज्ञेयम् । तत्रेति । तासु चतुर्यु कम्रासु मध्ये, द्वे द्वे कने ये प्रतिहस्तं विक्षिप्येते तयोरेकैकां कम्रां मध्यमाङ्गुष्ठयोः मूले धृत्वा प्रान्तयोधृत्वा च अपरां कमां बुद्धया शनैर्वादयेत् | मणिबन्धस्य कम्पने च कम्रावादनं मतम् । तत्र पाटा: किटकिटादयो मुख्या: । मतान्तरेण वादनप्रकारमाह-कम्राणामिति । कम्राणामन्तरं विधाय दक्षिणानामिकया वामस्याङ्गुष्ठस्य मुष्टे: तलेन प्रान्ते च इत्यन्ये अवादिषुः ॥ -११९२-११९७ ॥ इति कम्रालक्षणम् Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626