Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 27
________________ तस्वबोधविधायिनी व्याख्या । कथं पुरःस्थितवस्तुदर्शनमात्राद्भवतीति वाच्यम् । यदि पुनरनुमानव्यतिरेकेण सर्वदा प्रवृत्तिर्न भवतीति प्रवर्तकमनुमानमेवेत्यभ्युपगमः । तथा सति प्रत्यक्षेण लिङ्गग्रहणाभावात्तत्राप्यनुमानमेव तन्निश्चयव्यवहारकारणम् ; तदप्यपरलिङ्गनिश्चयव्यतिरेकेण नोदयमासादयतीत्यनवस्थाप्रसङ्गतोऽनुमानस्यैवाप्रवृत्तेर्न कचित्प्रवृत्तिलक्षणो व्यवहार इत्यभ्यासावस्थायां प्रत्यक्षं स्वत एव व्यवहारकृत् अभ्युपेयम् । अनुमानं तु तादात्म्यतदुत्पत्तिप्रतिबन्धलिङ्गनिश्चयबलेन स्वसाध्यादुपजायमानत्वादेव तत्प्रापणशक्तियुक्तं संवादप्रत्ययोदयात्पागेव प्रमाणाभासविवेकेन निश्चीयतेऽतः स्वत एव । तथाहि । यद् यत उपजायते तत् तत्प्रापणशक्तियुक्तम् । तद्यथा प्रत्यक्षं स्वार्थस्य । अनुमेयादुत्पन्नं चेदं प्रतिबद्धलिङ्गदर्शनद्वारायातं लिङ्गिज्ञानमिति तत्प्रापणशक्तियुक्तं निश्चीयत इति मूढं प्रति विषयदर्शनेन विषयी व्यवहारोऽत्र साध्यते । सङ्केतविषयख्यापनेन समये प्रवर्त्तनात् । तथाहि । प्रत्यक्षेऽप्याव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः प्रतिपन्नः । अव्यभिचारश्च नान्यस्तदुत्पत्तेः । सैव च ज्ञानस्य प्रापणशक्तिरुच्यते ॥ तदुक्तम्. “अर्थस्यासम्भवेऽभावात्प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तहेतुले समं द्वयम्" ॥ १ ॥ इति । तस्मात् मूढं प्रति परतःप्रामाण्यव्यवहारः साध्यते । अनुमाने प्रामाण्यस्य प्रतिबद्धलिङ्गनिश्चयानन्तरं स्वसाध्याव्यभिचारलक्षणस्य ततः उत्पन्नत्वेन प्रत्यक्षसिद्धत्वात्, न परतः प्रामाण्यनिश्चये चक्रकचोद्यस्यावतारः । प्रत्यक्षे तु संवादाप्रागदुत्पत्तिरशक्यनिश्चयेति संवादापेक्षैवानभ्यासदशायां तस्य प्रामाण्याध्यकसितियुक्ता। अत उत्पत्तौ, स्वकार्ये, ज्ञप्तौ च सापेक्षत्वस्य प्रतिपादितत्वाद् थे यद्भावं प्रत्यनपेक्षाः' इति प्रयोगे हेतोरसिद्धिः। यतश्च सन्देहविपर्ययविषयप्रत्ययप्रामाण्यस्य परतो निश्चयो व्यवस्थितोऽतो ये सन्देहविपर्ययाध्यासिततनवः' इति प्रयोगे न व्याप्त्यसिद्धिः । यदप्युक्तम् । सर्वप्राणभृतां प्रामाण्यं प्रति सन्देहविपर्ययाभावादसिद्धो हेतुरित्यादि। तदप्यसत् । यतः प्रेक्षापूर्वकारिणः प्रमाणाप्रमाणचिन्तायामधिक्रियन्ते

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200