Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 206
________________ ४०५ ४०६ नवमो भवः अन्ये तु निहता राज्ञा श्रेष्ठिनः समताजुषः । एकस्य बहुमानेऽस्ति परेष्वनुमतिः कथम् ॥५६२॥ दृष्टान्तोऽयमुपनयस्त्वस्य श्राद्धो नृपोपमः । साधुः श्रेष्ठिसमः पुत्रतुल्या जीवास्तु षड्विधाः ॥५६३॥ विज्ञप्तितुल्या विज्ञेया साधुधर्मस्य देशना । एवं च सूक्ष्मजीवानां श्रावकस्याविमोचने ॥५६४।। साधोरनुमतिर्न स्याद्भवेदितरथा पुनः । अत एवोक्तमर्हद्भिः पूर्वं ज्ञानं ततो दया ॥५६५।। सर्वं सम्यगनुष्ठानं ज्ञानपूर्वमतो मतम् ।। श्रुत्वेति मुदितः श्रेष्ठी धनवृद्धिरभाषत ॥५६६।। यदात्थ भगवान् सत्यमिदं धर्मो जिनोत्तमैः । सुष्ट दृष्टो ह्ययमहो महोध्वस्ततमोभरैः ।।५६७|| तदा पूर्वागतो नत्वाऽशोकचन्द्रोऽब्रवीदिति । भगवन् ये खलु स्तोकेऽपि प्रमादस्य चेष्टिते ॥५६८।। विपाकदारुणाः शास्त्रे श्रूयन्ते ते तथैव किम् । उताऽन्यथा प्रभुः प्राह शृणु सौम्य ! समाहितः ॥५६९|| सिद्धान्तोक्ता हि सत्या यन्नाऽन्यथावादिनो जिनाः । ये तु सिद्धान्तबाह्याः स्युर्यदृच्छा तेषु सुन्दर ! ॥५७०|| अशोक: प्राह भगवन् ! केषाञ्चिदपि किं ततः । हिंसादिषु प्रवृत्तानां सुविरुद्धकृतामपि ॥५७१।। सम्पत्तिरक्षया भोगा घना दीर्घ च जीवितम् । अल्पेऽपि त्वपराधे स्यादितरेषां विपर्ययः ॥५७२।। युग्मम् प्रोचे गुरुः परिणतिविचित्रा खलु कर्मणाम् । पापानुबन्धिपुण्या ये जीवा दुर्गतिगामिनः ॥५७३।। समरादित्यसंक्षेपः भवाभिनन्दिनः क्षुद्राः कल्याणस्य पराङ्मुखाः । सम्पत्त्यादि भवेत्तेषां पापपूरणहेतवे ॥५७४।। परमार्थान्न सा सम्पत् परेषां तु महात्मनाम् । उक्तभावविपर्यासाज्ज्ञेयः सर्वविपर्ययः ॥५७५।। विशेषकम् तेनाऽथ सत्यमित्युक्ते नत्वा प्राह विलोचनः । विशिष्टं किमुपष्टम्भप्रदानाभयदानयोः ॥५७६।। ऊचे भगवता दानमभयस्य विशिष्यते । दृष्टान्तोऽत्राऽऽत्तचौरस्य राजपत्न्या विमोचनात् ॥५७७।। अस्त्यत्रैव पुरे ब्रह्मपुरे राजा कुशध्वजः । कमलाऽऽख्या महादेवी तिस्रोऽन्यास्तस्य सन्ति च ॥५७८|| अन्यदा च गवाक्षस्थस्ताभिश्चतसृभिः सह । अक्षयूतविनोदेन यावदस्ति नरेश्वरः ॥५७९|| तावन्नेककशाघातदूनं बद्धं च तस्करम् । तलारक्षः समानीय नृपं विज्ञप्तवानिति ॥५८०।। देवानेन परद्रव्यस्याऽपहारो विनिर्मितः । व्यापादयैनमित्युक्ते राज्ञा संचारितः स तैः ॥५८१।। प्राणानामथ वाल्लभ्यात् साक्रन्दं तेन भाषितम् । अहो प्रथमचौर्योऽहं हन्येऽप्राप्तमनोरथः ॥५८२॥ श्रुत्वेति देव्यो निर्व्याजं नृपं व्यज्ञपयन्निति । अयं मनोरथेऽपूर्णे मार्यतामार्यपुत्र ! मा ॥५८३।। किमप्यन्योचितं कुर्म आर्यपुत्रप्रसादतः । नृपेण कुरुतेत्युक्ते विमोच्यैका गृहेऽनयत् ॥५८४।। अभ्यङ्गकुशलैः पुम्भिस्तमभ्यङ्गं विधाप्य सा । गन्धोदकैश्च संस्नप्य क्षौमयुग्ममदान्मुदा ।।५८५॥

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215