Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 520
________________ • ५०४ काव्यमाला। अथ प्रहर्षणम्. साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभः प्रहर्षणम् ॥ ... ... इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभीप्सितार्थलाभ इत्येका विधा । वाञ्छितार्थसिद्ध्यर्थ यत्ने क्रियमाणे ततोऽप्यधिकतरार्थलाभ इत्यपरा । उपेयसिद्ध्यर्थाद्यत्नात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थ लक्षणे साक्षादित्युक्तम् । क्रमेणोदाहरणानि'तिरस्कृतो रोषवशात्परिष्वजन्प्रियो मृगाक्ष्याः शयितः पराड्मुखः । किं मूञ्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सखजे ॥' . अत्र यत्नसामान्यशून्यस्यापीष्टलाभः। ... 'केलीमन्दिरमागतस्य शनकैरालीरपास्येजितैः - सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत ॥' अत्र भामिन्या रोषनिवारणाय यत्ने क्रियमाणे रोषनिवारणादप्यधिकतरसुखप्रदः कामुकस्य भामिनीकर्तृकः खकरकर्मकस्तत्कुचाधिकरणक आसङ्गः । न चात्र तृतीय भेदः शङ्कचः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुपस्थितेः । यथा वा-: ..... .. . 'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या । । . लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ .. अत्र प्रहर्षणद्वितीयभेदः स्फुट एव । अननुरूपसंबन्धमादाय विषमालंकारश्च । तत्र सहेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोर्विषयविषयिणोरुभयोरपि प्रहर्षणेऽनुगुणत्वम् । वाञ्छिताधिकार्थत्वस्य मणिभगवदुभ नाच्च । निदर्शनायामुभयोरुपादानं नियतम् , अत्र तु नेति भेदः । अत एव क्क सूर्य इत्यादौ वाक्यार्थनिदर्शना वेति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे ललितालंकारप्रकरणम् ॥ . प्राग्वदाह-अथेति । तत्र तयोर्मध्ये । यथासंख्येनाह-विधेति । मात्रस्यानु

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552