Book Title: Pramey Ratnamala Author(s): Anantvirya Shrimad Publisher: Jain Sahitya Prasarak Karyalay View full book textPage 5
________________ प्रथमसमुद्देशः। - इत्यस्यार्थः---अहं वक्ष्ये प्रतिपादयिष्ये । किं तल्लक्ष्म, लक्षणम् । किं विशिष्टं लक्ष्म ? सिद्धं, पूर्वाचार्यप्रसिद्धत्वात् । पुनरपि कथंभूतं ? अल्पमल्पग्रन्थवाच्यत्वात् । ग्रन्थतोऽल्पमर्थतस्तु महदित्यर्थः । कान् ? लघीयसो विनेयानुद्दिश्य । लाघवं मतिकृतमिह गृह्यते न परिमाणकृतं नाऽपि कालकृतं तस्य प्रतिपाद्यत्वव्यभिचारात् । कयोस्तलक्ष्म ? तयोः प्रमाणतदाभासयोः । कुतः यतोऽर्थस्य परिच्छेद्यस्य संसिद्धिः संप्राप्ति तिर्वा भवति । कस्मात् ? प्रमाणात् । न केवलं प्रमाणादर्थसंसिद्धिर्भवति । विपर्ययो भवति । अर्थसंसिद्धयभावो भवति । कस्मात्तदाभासात् प्रमाणाभासात् । इतिशब्दो हेत्वर्थे इति हेतोः । अयमत्र समुदायार्थः । यतः कारणात्प्रमाणादर्थसंसिद्धिर्भवति । यस्माच्च तदाभासाद्विपर्ययो भवति । इति हेतोस्तयोः प्रमाणतदाभासयोर्लक्ष्म लक्षणमहं वक्ष्ये इति ॥ ननु सम्बन्धाभिधेयशक्यानुष्ठानेष्टप्रयोजनवन्ति हि शास्त्राणि भवन्ति । तत्रास्य प्रकरणस्य यावदभिधेयं सम्बन्धो वा नाभिधीयते न तावदस्योपादेयत्वं भवितुमर्हति । एष वन्ध्यासुतो यातीत्यादिवाक्यवत् । दशदाडिमादिवाक्यवच्च । तथा शक्यानुष्ठानेष्टप्रयोजनमपि शास्त्रादाववश्यं वक्तव्यमेव । अशक्यानुष्ठानस्येष्टप्रयोजनस्य सर्वज्वरहरतक्षचूडारस्नालङ्कारोपदेशस्येव प्रेक्षावद्भिरनादरणीयत्वात् । तथा शक्यानुष्ठानस्याप्यनिष्टप्रयोजनस्य विद्वद्भिरवधीरणान्मातृविवाहादिप्रदर्शकवाक्यवदिति । सत्यं, प्रमाण १ शिष्यत्व । २ प्रकृतस्यार्थस्यानुरोधेनोत्तरोत्तरस्य विधानं सम्बन्धः । सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥१॥ व्याख्याशुद्धिस्त्रिधा शास्ने स्थानमार्गप्रमेयतः । स्थानं त्रिधा द्विधा मार्गः प्रमेयं च त्रिधा विदुः॥२॥श्लोकस्यास्य व्याख्यानम्- तत्र पातनिकस्थानं द्विविधं सूत्रपातनिका ग्रन्थपातनिकेति । समर्थनस्थानं । विवरणस्थानमिति विधा । अन्वयमार्गः व्यतिरेकमार्ग इति मार्गो द्विधा । प्रकृतप्रमेय, प्रासंगिकप्रमेयं, भानुषंगिकप्रमेयमिति विधा।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 92