Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 844
________________ ६८० प्रमेयकमलमार्तण्डे [६. नयपरिक कालादिभेदाद्भिन्न एवार्थःशब्दस्य । तथाहि-विवादापन्नो विभिन्नकालादिशब्दो विभिन्नार्थप्रतिपादको विभिन्नकालादिशब्दत्वात् तथाविधान्यशब्दवत् । नन्वैवं लोकव्यवहारविरोधः स्यादिति चेत्; विरुध्यतामसौ तत्त्वं तु मीमांस्यते, न हि भेषजमातुरे५च्छानुवर्ति। नानार्थान्समेत्याभिमुख्येन रूढः समभिरूढः । शब्दनयो हि पर्यायशब्दभेदान्नार्थभेदमभिप्रैति कालादिभेदत एवार्थ भेदाभिप्रायात् । अयं तु पर्यायभेदेनाप्यर्थभेदमभिप्रैति । तथा हि-'इन्द्रः शक्रः पुरन्दरः' इत्याद्याः शब्दा विभिन्नार्थगोचरा विभिन्नशब्द१० त्वाद्वाजिवारणशब्दवदिति । एवमित्थं विवक्षितक्रियापरिणामप्रकारेण भूतं परिणतमर्थ योभिप्रेति स एवम्भूतो नयः । समभिरूढो हि शकनक्रियायां सत्यामसत्यां च देवराजार्थस्य शक्रव्यपदेशमभिप्रैति, पशोर्गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्, तथा रूढेः सद्भावात्, १५ अयं तु शकनक्रियापरिणतिक्षणे एव शक्रमभिप्रेति न पूजनाभिषे. चनक्षणे, अतिप्रसङ्गात् । न चैवंभूतनयाभिप्रायेण कश्चिदक्रियाशब्दोस्ति, 'गौरश्वः' इति जातिशब्दाभिमतानामपि क्रियाशब्द. त्वात् , 'गच्छतीति गौराशुगाम्यश्वः' इति । 'शुक्लो नीलः' इति गुणशब्दा अपि क्रियाशब्दा एव, 'शुचिभवनाच्छुक्लो नीलना२० नीलः' इति । 'देवदत्तो यज्ञदत्तः' इति यदृच्छाशब्दा अपि क्रिया शब्दा एव, 'देवा एनं देयासुः' इति देवदत्तः, 'यो एनं देयात्' इति यज्ञदत्तः । तथा संयोगिसमवायिद्रव्यशब्दाः क्रियाशब्दाः एव, दण्डोस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीति । पञ्चतंयी तु शब्दानां प्रवृत्तिर्व्यवहारमात्रान निश्चयात् । २५ एवमेते शब्दसमभिरुदैवम्भूतनयाः सापेक्षाः सम्यग, अन्यो. न्यमनपेक्षास्तु मिथ्येति प्रतिपत्तव्यम् । एतेषु च नयेषु ऋजुसूत्रान्ताश्चत्वारोर्थप्रधानाः शेषास्तु त्रयः शब्दप्रधानाः प्रत्यतव्याः। १ विश्वदृश्वा भविता करोति क्रियते इत्यादिः। २ रावणशङ्खचक्रवर्त्यादिशब्दवत् । ३ लिङ्गवचनादिभेदेनार्थभेदप्रकारेण । ४ समाश्रित्य । ५ पर्यायभेदात्पदार्थनानात्व. प्ररूपकः सममिरूढः। ६ क्रियाश्रयेण भेदप्ररूपणमित्थम्भावोत्र । ७ यथा नमन. क्रियां कुर्वतोमि पाचकत्वप्रसङ्गः स्यात् । ८ क्रियाप्रधानतया। ९ अस्तीति क्रियात्र । १० जातिक्रियागुणयदृच्छासम्बन्धवाचकप्रकारेण । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920