Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 46
________________ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे षष्ठः परिच्छेदः । ४१ भास एव नास्ति तथा हि परेणासिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत तदा प्रमाणाभावादुभयोरसिद्धः । अथाचक्षीत तदा प्रमाणस्यापक्षपातित्वादुभयोरप्यसौ सिद्धः । अत्रोच्यते यदा वादी सम्यग्वेतुत्वं ३ प्रतिपाद्यमानोऽपि तत्समर्थनन्याय विस्मरणादिनिमितेन प्रतिवादिनं प्राश्निकान्वा प्रतिबोधयितुं न शक्नोत्यसिद्धतामपि नानुमन्यते तदाऽन्यतरासिद्धत्वेनैव निगृह्यते । तथा स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो ६ हेतुरन्यतरासिद्धो निग्रहणेऽधिकरणं यथा सांख्यस्य जैनं प्रत्यचेतनाः सुखादयः उत्पत्तिमत्त्वात् घटवदिति ॥ ५१ ॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ९ ॥ ५२ ॥ साध्येति । यदा केनचित्साध्यविपर्ययेणाविना भूतो हेतुः साध्या विनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धः ॥ ५२ ॥ १२ यथा नित्य एव पुरुषोऽनित्यं एत्र वा प्रत्यभिज्ञानादिमत्त्वात् ५३ प्रत्यभिज्ञानादिमत्त्वादित्यत्रादिशब्दात्स्मरणादिग्रहः । भयं च हेतुः प्राचि साध्ये साङ्ख्यादिभिराख्यातः स्थिरैकस्वरूपपुरुषसाध्य विपरीत परिणामि पुरुषेण १५ व्याप्तत्वाद्विरुद्धः, तथैकान्तानित्यत्वेऽपि साध्ये सौगतेन क्रियमाणोऽयं हेतुर्विरुद्धः परिणामिपुरुषेणैव व्याप्तत्वात् । ये च सति स्वपक्षे पक्ष विपक्षव्यापक इत्यादयो विरुद्धभेदास्तेऽस्यैव प्रपञ्चभूता वृत्तितो ज्ञेयाः ॥ ५३ ॥ यस्यान्यथानुपपत्तिः सन्दिह्यतेऽसावनैकान्तिकः ॥ ५४ ॥ यस्येति । साध्यसद्भावे क्वचिद्धेतोर्वि भावनात् क्वचित्तु तदभावेऽपि विभावनादन्यथानुपपत्तिः सन्दिग्धा स्यात् ॥ ५४ ॥ सद्वेधा – निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च ॥५५॥ भयं सन्दिग्धविपक्षव्यावृत्तिकः सन्दिग्धान्यानुपपत्तिकः सन्दिग्धव्यतिरेक इति नामान्तराणि प्राप्नोति ॥ ५५ ॥ २४ निर्णीत विपक्षवृत्तिको यथा - नित्यः शब्दः प्रमेयत्वात् ॥ ५६ ॥ प्रमेयत्वादिति । प्रमेयत्वं हि सपक्षीभूते नित्ये व्योमादौ यथा प्रतीयते तथा विपक्षभूतेप्यनित्ये घटे प्रतीयते एव । ततश्चोभयत्रापि प्रतीयमानत्वाविशे- २७ १८ २१

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70