Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SALAMSALESALESAKASEX कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थङ्करं पृच्छामीति गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं पृष्टो भगवान् अदुष्टचित्ताऽघातिकेत्यभिहितवानिति ।। अथाऽत्र श्रावकाणां द्रव्यसाधर्मिकवात्सल्यकर्तव्यतामाह कार्येष्टभोजनविभिन्नप्रभावनाद्यै-राभ्वादिवन्निखिलसङ्घसप्रेमभक्तिः। सो हि तीर्थकरपूजित इत्यतोऽनु-पूज्यस्य तस्य परिधापनिका प्रदेया ॥९॥ क्षमाभूषणाभूश्रेष्ठिदृष्टान्तश्चैवम्लघुकाश्मीरापराभिधे थारापद्रनगरे श्रीश्रीमालीसङ्घपतिराभूनामा पश्चिममण्डलीकबिरुदधारी निवसति स्म। | अथैकदा मण्डपदुर्गे सङ्घपतिझाञ्झणदेवाग्रे तद्भद्देन 'प्राघुर्णकसाधर्मिकवात्सल्यभोजनदानं विना न भुते सङ्घपतिराभूः' इत्यादिगुणवर्णनं कृतं, ततस्तद्गुणश्रवणचमत्कृतस्तत्परीक्षार्थ प्रच्छन्नवृत्त्या पृथक् पृथग्वम॑ना सङ्केतितदिने समकालं द्वात्रिंशत्सहस्रसाधर्मिकसङ्घन सार्ध श्रीझाञ्झणोऽविच्छिन्नप्रयाणैरश्ववारैरज्ञातागमनस्वरूपश्चतुर्दशीदिने श्रीमदाभूश्रेष्ठिनि गृहीतपौषधे जिनालये निसीही ३ कुर्वाणः ससङ्घः सम्प्राप्तः, सङ्घपत्या द्रव्यसाधमि कवात्सल्यमप्यत्र कर्तव्यमित्यधिकारः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74