Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 201
________________ ૧૮૨ श्रीलोकनालिद्वात्रिंशिका प्रकाशनम्, मध्यलोकात्सौधर्मादीनामुच्चत्वनियमनम्, सम्यक्त्वादिसहितप्राणिविशेषाणां लोकस्पर्शनाप्रकारः, ऊर्ध्वाधोलोकयोः सूचीप्रतरघनरज्जूनां पृथक् पृथक् सङ्ख्याप्रकाशनम्, घनप्रतरसूचीरज्जव: कतिखण्डुकैर्भवन्तीति तत्सङ्ख्यासम्पादनम्, संवर्गितलोकस्य घनसूचीप्रतररज्जुखण्डुकानां सङ्ख्यास्वरूपप्रतिपादनम्, संवर्तितलोक स्वरूपसम्पादनम्, तस्यैव लोकस्य घनरज्जवादिसङ्ख्यासंकलनम्, प्रकरणपूर्णाहुतौ स्वनामगर्भितोपदेशसूचनम् इत्येते विषया: प्रकरण - कर्तृभिः प्रतिपादिताः सन्ति । इदं श्रीलोकनालिकाभिधानं प्रकरणं केन कदा प्रणीतमिति जिज्ञासायां प्रवर्त्तमानायाम्-“सुयधम्मकित्तियं" इति श्लिष्टपदोल्लेखेन प्रकरणकर्तृत्वेनात्मनो धर्मकीर्त्तिरिति नाम प्रकटीकृतम् । अतो वाचंयमो पाध्यायपदान्यतरावस्थास्थैरेभिरेषा द्वात्रिंशिका गुम्फितेति सम्भाव्यते । एषामेव गच्छनायकावस्थायां श्रीधर्मघोषसूरिरिति नामासीत् । तत्तु बृहत्तपोगच्छगगनाङ्गणगभस्तिमालिभिर्भीषणभवारण्यभ्रमणोद्विग्नचेतोविचक्षणाचरितचारुचारित्राचरणचञ्चारित्रिचक्रचञ्चरीकाञ्चितचरणकमलैः श्रीमन्मुनिसुन्दरसूरिपादैः स्वप्रणीतपट्टावल्यां स्फुटतया प्रकटितम् । अनेनास्या द्वात्रिंशिकायाः प्रणेतारो नवीनकर्मग्रन्थाद्यनेकग्रन्थग्रथनप्राप्तगरिष्ठप्रतिष्टश्रीमत्तपोगणविशालनभस्तलेन्दु श्रीमद्देवेन्द्रसूरिपट्टपुरन्दराशाशैलहेलयः श्रीधर्मघोषसूरिपादा एवेति निश्चीयते । अतः स श्रीधर्मकीर्त्तिरेवायं श्रीधर्मघोषाचार्यो यो विक्रमाकयद्व्युत्तरत्रयोदशशत (१३०२) तमवर्षानन्तरं दीक्षां प्रतिपन्नवान्; विक्रमार्कीयत्रयोविंशत्यधिकत्रयोदशशत (१३२३) तमे वर्ष उपाध्यायपदम्, विक्रमार्कीयाष्टाविंशत्यधिकत्रयोदशशत (१३२८) तमे च वर्षे सूरिपदमभूषयत्, स्वर्गं च विक्रमार्कीयसप्तपञ्चाशदधिकत्रयोदशशत

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218