Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1037
________________ न्यायकोशः । १०१९ सिद्धसाधनम् - ( दोष: ) १ प्रमाणान्तरेणावगतार्थसाधनम् अनुमानम् । यथा पर्वते वह्निनिश्चयानन्तरमपि पुनस्तत्साधनाय विहितं पर्वतो वह्निमान् धूमात् इत्यनुमानम् । अत्र न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेनुमातारः इत्यनुभवो द्रष्टव्यः ( तत्त्वचिन्तामणौ वाचस्पतिमिश्रः ) । अत्र सिषाधयिषाया असत्त्वे इति ग्रन्थ आदौ पूरणीयः । सिषाधयिषायाः सत्त्वे तु अनुमितेरुदयेन तदा सिद्धसाधनस्य न दोषत्वम् ( पक्षताविघटकत्वम् ) इत्यवधेयम् । अत्र प्रत्यक्षकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः इत्यनुभवो द्रष्टव्यः ( चिन्तामणौ वाचस्पतिमिश्रः ) । २ साध्यपक्षतावच्छेदकयोरैक्ये सिद्धसाधनम् । यथा पर्वतः पर्वतत्ववान् धूमात् इत्यादौ सिद्धसाधनम् । अत्र पूर्वं पक्षतावच्छेदकपर्वतत्वविशिष्टपक्षज्ञानेनैव साध्यसिद्धयुपपत्तौ पुनस्तत्साधनं सिद्धसाधनम् इति भावः । केचित्तु पक्षतावच्छेदकभेदे न सिद्धसाधनं दोषः । यथा नित्ये वाङ्मनसे इत्यत्र । यथा वा घटत्वावच्छेदेनेतरभेदस्य सिद्धत्वेपि द्रव्यत्वावच्छेदेनेतरभेदसाधने न सिद्धसाधनम् इत्याहुः । सिद्धसाधनं च हेत्वाभासो निग्रहस्थानं वेति मतभेद: । तत्र सिद्धसाधनं पक्षताविघटकत्वेनाश्रयासिद्धेन्तर्भवति इति प्राचः जरन्नैयायिकाः आहुः । तन्मते पक्षतायाः साध्यसंशयरूपतया तद्विघटकत्वं साध्यनिश्चयस्याक्षतम् । तथा च संदिग्धसाध्यवतः पक्षस्याभावादाश्रयासिद्धिः इति भाव: ( नील० २ ) ( प्र० च० पृ० ३१ ) | नव्यास्तु सिषाधयिषितपक्षविघटनद्वारा सिद्धसाधनं दूषणम् न स्वतः । सत्यपि सिद्धसाधने ( साध्यनिश्चये ) सिषाधविषयानुमित्युदयान्न सिद्धसाधनं हेत्वाभासान्तरम् । किंतु निग्रहस्थानान्तरम् इत्याहु: ( चि.० २ ) ( न्या० म० २ पृ० २१ ) ( म०प्र० २ पृ० २८ ) ( त० दी० २ पृ० २७ ) ( सि० च० ) | नव्यानामयमाशयः । सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्यैव सिद्धान्त सिद्धपक्षतात्वस्वीकारात् सत्यामपि सिद्धौ ( साध्य निश्चये ) सिषाधयिषादशायां चानुमित्युदयेन सिद्धेरनुमिति प्रतिबन्धकत्वाभावान्न व्यापकत्व घटित हेत्वाभासलक्षणाक्रान्तत्वं सिद्धिविषयस्य साध्यवत्पक्षस्य इति न सिद्धसाधनस्य हेत्वाभासत्वं (दुष्टहेतुत्वम् ) संभवति ( नील० २ ० २७ ) इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102