Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 361
________________ 2 श्रीनवतत्त्व सुमङ्गलाटीकायां॥१६॥ प्रकीर्णा सिद्धमेदाः ॥ >-卐y->y प्रवृद्धतरादिभेदतो वर्तन्ते, तत्र च सर्वस्तोकानुभागपलिच्छेदजनके कषायोदये वर्तमानः कश्चिञ्जन्तुम॒तः, ततः कदाचित् पुनरपि तस्मादनन्तरव्यवस्थिते द्वितीयेऽनुभागबन्धाध्यवसायस्थाने विशेषाधिकानुभागपलिच्छेदजनके वर्तमानो मृतः, पुनरपि तस्मात् कदाचिद्विशेषाधिकानुभागपलिच्छेदजनके तृतीये मृतः, एवं क्रमेण क्रमेण विशेषाधिकानुभागपलिच्छेदजनकाध्यवसायस्थानकेषु वर्तमानस्य मरणं तावद्वाच्यं यावत्सर्वोत्कृष्टानुभागबन्धाध्यवसायस्थाने म्रियमाणेन जन्तुनाऽनन्ताऽनन्तैर्मरणैः सर्वाण्यपि स्पृष्टानि भवन्ति, अत्रापि प्राग्वद् व्यवहितानि पूर्वस्पृष्टानि च न गण्यन्त इति सूक्ष्मो भावपुद्गलपरावर्त्तः । अत्र प्रमाणविषये सर्वत्र सूक्ष्मा एव स्वीकर्तव्या न बादरा इति ॥ इत्येवं व्याख्यातस्वरूपद्रव्यादिसूक्ष्मपुद्गलपरावर्त्ता अनन्तसंख्याका व्यतिक्रान्तास्सन्तोऽतीताद्धा भवति, ततोऽप्यनन्तगुणाऽनागताद्धा । केचित्तु अतीतानागताद्धयोरनन्तशब्दसाम्यात्तुल्यत्त्वमपि प्रतिपादयन्ति तदपि नाऽसमीचीनमपेक्षयेति ॥ ५४ ॥ अथाऽनन्तपुद्गलपरावर्त्तकालं यावत् संसारे भ्रान्त्वाऽपि सम्यग्दर्शनादिसाधनेन सिद्धिमुपगताः सिद्धा कतिविधाः ? तत्प्रदिदर्शयिषयाऽऽह जिण अजिण तित्त्थऽतित्त्था, गिहि अन्न सलिंग थी नर नपुंसा । पत्तेय सयंबुद्धा, बुद्धबोहिय सिद्धणिका य ॥ ५५॥ टीका-'जिण' इति, जिनसिद्धाजिनसिद्ध-तीर्थसिद्धाऽतीर्थसिद्ध-गृहिलिङ्गसिद्धाऽन्यलिङ्गसिद्धस्वलिङ्गसिद्ध-स्त्रीलि iyyyyy ॥१६४॥

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376