Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 1078
________________ दशमः सर्गः 83 - अन्वयः--वयं जनाननेभ्यः यद्रूपं आकण्यं तत्तद्दिगन्तात् समागता तद्रूपम् अस्मात् अनुभूयमानात् सौन्दर्यसारात् बहुना कनीयः / व्याख्या--वयम् = नृपतयः, जनाननेभ्यः = लोकमुखेभ्यः, यत्-पूर्वाऽधिगतम् रूपम् = सौन्दर्यम् . आकर्ण्य = श्रुत्वा तत्तद्दिगन्तात् = ताभ्यस्ताभ्यो दिग्भ्यः समागताः= आयाताः, तद्रूपम् = तत्सौन्दर्यम् अस्मात = संमुखस्थात् अनुभूयमानात् = साक्षात्क्रियमाणात सौन्दर्यसारात् = सौन्दर्योत्कर्षात् बहुना=भूम्ना, कनीय = अत्यल्पम् / टिप्पणी-जनाननेभ्यः = जनानामाननानि तेभ्यः (10 तत्पु०) तत्तद्दिगन्तात् = स च स च दिगन्तः तत्तद्दिगन्तः तस्मात् ( कर्मधारयः) कनीयः = अतिशयेनाल्पः, अल्प शब्दात् अनीयर् प्रत्ययः / “युवाल्पयोः कनन्यतरस्याम्" इति कनादेश / भावः-जनमुखादवगत्य यदागता वयमियं नयनाभिमुखीं ततः। परमसौभगसारसुरूपिणी सदसि तन्तुविकल्पितमन्यथा / अनुवादः-हमलोग लोगों के मुख से सुने जिस सौन्दर्य से आकृष्ट होकर अनेक दिशाओं से यहाँ आये, वह सुन्दरता इस अनुभूयमान सुन्दरता से अत्यन्त रसस्य शृङ्गार इति श्रुतस्य क्व नाम जाति महानुदन्वान् / कस्मादुदस्थादियमन्यथा श्रीलावण्यवेदग्ध्यनिधिः पयोधेः ? // 115 // अन्वयः-शृङ्गार इति श्रुतस्य रसस्य महान् उदन्वान् क्व नाम जागति अन्यथा लावण्यवैदग्ध्यनिधिः इयं श्रीः कस्मात् पयोधेः उदस्थात् / / व्याख्या-शृङ्गार इति = शृङ्गार इत्येवं नाम्ना, श्रुतस्य = विख्यातस्य रसस्य, महान् = महत्त्वशाली, उंदनवान् = उदधि, क्व नाम = कस्मिन् अपि देशे जागति = वर्तते, अन्यथा = तदभावे लावण्यवैदग्ध्यनिधिः= सौन्दर्यचातुर्थसेवधिभूता, इयम् = पूर्वप्रसिद्धभिन्ना लक्ष्मीः भैमी रूपा कस्मात् कुत, पयोधेः= समुद्रात उदस्थात् = उत्पन्ना। श्रियोऽप्यधिकरूपिणीयं क्षीराब्धेरन्यस्मात् शृङ्गारसमुद्रादववश्यमुत्पन्नेति भावः / टिप्पणी-उदन्वान् = "उदन्वानुदधो" इति निपातनात् सिद्धम् / लावण्यवैदग्ध्यनिधि= लावण्यञ्चवैदग्ध्यञ्चेतिलावण्यवैदग्ध्ये तयोनिधिः (द्वन्द्वगर्भ: 10 तत्पु० ) उदस्थात् = उत्पूर्वात् तिष्ठते लुंङ् 'जातिस्थेत्यादिना' सिचो लुक् /

Loading...

Page Navigation
1 ... 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098