Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 19
________________ ( १६ ) प्रबोधनात् शान्तिपथाऽध्वगीसन् । संसारनैर्गुण्यमवेक्षमाणो नृसिंह ऐच्छत् शिवशर्ममार्गम् ॥ ८७ ॥ इतो मफालालमहानुभावः श्रीधर्मसूरीन्द्रनिदेशमाप्य | भावि प्रयाणं न पुनर्मदीय - मितीव मन्वान इयाय देशे ॥ ८८ ॥ यात्रामकुर्वन् विमलाऽचलस्या प्रणीतपूर्वी प्रबलान्तरायात् । सम्मेतशैले प्रभुधर्मसूरि पदारविन्दे पुनराजगाम ॥ ८९ ॥ ततः सहैभिः कलकत्तिकाया मगाद् मफालालमहानुभावः । सत्सङ्गतो हि प्रभवत्प्रमोदं सत्सङ्गभागेव पुमानवैति ॥ ९० ॥ तत्राऽथ पुर्या मुनिशेखराणां साधूपदेशाद् भवतो विरागाः । ये त्वरन्ते स्म महानुभावाः श्रामण्यसाम्राज्यरमामुपेतुम् ॥ ९१ ॥ ततो मफालालमहानुभावोऽप्येभिस्त्रिभिदीक्षितुमभ्यवाञ्छत् । निरन्तरायो हि विविक्तबुद्धि

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31