Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 333
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर-बालातपासहितम् "ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥' Acharya Shri Kailassagarsuri Gyanmandir त्वेऽपि इति वचनात् । 'स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यत' इति वचनेन तदुच्चारणे प्रत्यवायश्रवणेन तदुच्चारणस्यादृष्टमात्रौपयिकत्वात् अर्थज्ञानपूर्वकस्यैवोच्चारणस्यादृष्टौपयिकत्वेनार्थवर्णनस्याप्यावश्यकत्वात् नामसाहस्रस्याप्यनेन न्यायेनादृष्टार्थपरस्परविशेष्यविशेषणभावनाकाङ्क्षायोग्यता सतिसद्भावे नास्तीति क्रिययान्वयवर्णनेन महावाक्यार्थस्यैकस्य वर्णयितुं शक्यत्वेन वैषम्यात् ईदृशवाक्येष्वस्तीति क्रियापदाध्याहारस्यावश्यकत्वात् । तथा च कात्यायनस्मरणम् 'अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति । भवन्तीपर इत्यस्य लट्पर इत्यर्थः । अस्तु वा प्रणवयोरपि विशेषणतया महावाक्यार्थान्वयित्वं समस्तव्यस्तभेदेन पौनरुक्त्यनिराससम्भवात् । अत एवं परिभाषायां गदन्तमिति तकारस्य प्रणवसाहित्येन षट्संख्यापरत्वमिति दिक् | अर्धम् । इदानीं परिभाषामण्डले नाम्नां शतकेष्वादिभागान्संगृह्य प्रदर्शयति श्रीमणिसधींविविधगुडदरान्देशैश्च पुष्टनादाभ्याम् । नामसु शतकारम्भा न स्तोभो नापि शब्दपुनरुक्तिः ॥ ३३ ॥ 'श्रीमाता मणिपूरान्तरुदिता सद्गतिप्रदा । ह्रींकारी विविधाकारा गुडान्नप्रीतमानसा ॥ दरान्दोलितदीर्घाक्षी सावित्री रसशेवधिः । विज्ञानकलिका चेति पदान्येतान्यसंशयम् ॥ शतकाद्यानि नामानीत्यवधार्याणि सूरिभिः ।' 319 श्रीमाता- १, मणिपूरान्तरुदिता - २, सद्गतिप्रदा- ३, ह्रींकारी - ४, विविधा - कारा- ५, गुडान्नप्रीतमानसा- ६, दरान्दोलितदीर्घाक्षी - ७, देशकालापरिच्छिन्ना-८, पुष्टा- ९, नादरूपिणी - १०, एवं दश नामानि प्रथमादिशतकारम्भकाणि । अत्र श्रीमण्यादिशब्दानां श्रीकण्ठार्धशरीरिणी मणिपूराब्जनिलयेत्यादावतिप्रसक्तत्वेऽपि गणनासाचिव्येनैव भ्रमो निरस्तव्यः । गणनोत्तरं हि शतकप्रत्यासन्ननामस्वेव हि संशयो भवति क्वचित् । क्वचित्पदच्छेद- संशयप्रयुक्तोनविप्रकृष्टनामसु । अत एव ह्रीं इति सबिन्दुकग्रहणं ह्रीमतीति तत्समीपवर्तिनामनिरासाय । दरामित्युक्तिः 'दरहासोज्ज्वलन्मुखीत्यस्य व्यावर्तनायेति ज्ञेयम् । यत्तु केचित् For Private and Personal Use Only इति ललितोपाख्यानस्थं वचनमिति लिखन्ति, तस्य प्रमाणिकत्वेऽप्युपायसंग्रहमात्रतात्पर्यकत्वेनोपायान्तरादूषकत्वेन तन्नेयम् । निरर्थकः शब्दः स्तोभः । स च

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392