Book Title: Laghuchandrika Author(s): Bramhanand Sarasvati, Harihar Shastri Publisher: Vidya Mudrakshar Shala View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मा ॥श्रीः॥ भूमि का -:(*):आर्यमिश्राः!! विज्ञातमेव खलु भवतां अतीतानेकभवपरम्परासमार्जितसुकृतसम्पदावर्जितभगवदनुग्रहासादितसत्त्वोत्कर्षाधीनविवेकवैराग्यादिसाधनसम्पन्नैः प्राक्तनसुकृतसम्पत्त्यधीनविषयविशेषसम्पर्कप्रयुक्तसत्त्वोत्कर्षापकर्षरूपशुद्धितारतम्ययुक्तसुखरूपान्तः करणवृत्तिप्रतिफलितस्वरूपानन्दरूपविषयानन्दमपि क्षणिकत्वेनानुमन्यमानैः श्रवणमनननिदिध्यासनाभ्यासनिधूतनिखिलप्रतिबन्धकानुबन्धैः पुरुषधौरेयैरेव प्राप्यमाणं वस्तुसञ्चैतन्यमात्रत्वाविरोधिवद्धपुरुषाविद्याकल्पितनिरवग्रहैश्वर्यतदनुगुणगुणकलापविशिष्टनिरतिशयानन्दस्फुरणसमृद्धनिस्सन्धिबन्धपरमेश्वरभावापन्नं मात्रयापि दुःखदविष्ठं परमपुरुषार्थकाष्ठापन्नं नित्यनिरतिशयापरिच्छिन्नसुखमात्रस्वरूपमद्वितीयाखण्डचिन्मात्रप्रत्यगभिन्ननिर्विशेषात्मतत्त्वमनानन्तः इतरेतरभेदाग्रहेण आत्मानात्मनोरन्योन्यधर्म्यध्यासपुरस्सरमनात्मधर्मान् कर्तृत्वभोक्तृत्वादीन् आत्मनि आत्मधर्मांश्च चैतन्यादीननात्मनि चाध्यस्य नानाविधकुतर्काकुलचेतसः जननमरणप्रवाहपरम्परारूपे अनादिसंसारकूपे बम्भ्रम्यमाणाः मोमुह्यन्त एव प्रायेण जीवराशयइत्यतस्तानुदिधीषुमर्गवान् परमकारुणिकः परमेश्वरः 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युस्थानाय धर्मस्य तदात्मानं सृजाम्यह'मिति प्रतिज्ञातार्थपारिपालनाय 'चतुभिस्सह शिप्यैस्तु शङ्करोऽवतरिष्यति ।' इति सौरपुराणवचनानुसारेण बहोःकालात्पूर्वमेवास्मिन् कलियुगे श्रीमच्छङ्करभगवत्पादरूपेण गृहीतलीलामानुषविग्रहः अवतीर्य केरले कालटिग्रामे शिवगुरोरायर्याम्बायामधीत्य चाद्य एव वयसि अखिलमप्यागमं अभ्यस्य च सर्वशास्त्राणि आश्रित्य चाद्याश्रमादेव पश्चिममाश्रमम् अनादृत्य च शारीरं प्रयास भटित्वा चावनिमण्डलं अनुष्ठाप्य चाश्रमधर्मान् अनुबोध्य चाखिलागमतात्पर्यविषयमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मभूतमखण्डपरिपूर्णसत्यज्ञानानन्दामला द्वितीयस्वप्रकाशनिर्विशेषब्रह्मस्वरूपमेव परमार्थतत्त्वम्, आरचय्य च भगवद्वेदव्यासप्रणीतानेकन्यायोपबृंहितचतुरध्याय्यात्मकोत्तरमीमांसामाप्यादिप्रबन्धनातम्, अव. मत्य च नास्तिकादिदुर्मताभिमानिनः कुदृष्टीन् , अवस्थाप्य च वैदिकमद्वैतं मतमप्र For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 336