Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
अद्वैतमञ्जरी ।
त्यादितात्पर्यस्वीकारात् स्वतन्त्रतात्पर्याभावेऽपि विधिन व्यर्थः । यत्र ह्येकरूपेण विधिनिषेधौ, तत्र विधिय॑थः । निषेधार्थमेव तत्र विधानाद्विधेयस्यैव निषेधाच्च । प्रकृते तु द्वितीयमात्रस्य निषेधः । न तु विधेयस्य द्वितीयाभावस्यैव । तद्विधिरपि न तन्निषेधार्थः । किं त्वखण्डवाक्यार्थसिद्ध्यर्थः । तथा च द्वितीयाभावस्य वस्खेतररूपसर्वद्वितीयनिषेधरूपत्वेन निषेध एव तात्पर्यम् । न विधौ । तदेतद्वक्ष्यति 'प्रकते तु निषेधस्यैव शास्त्रार्थत्वादिति । तदपि तात्पर्यं न मुख्यम् । तद्विषयस्यान्यशेषत्वात् । तथा च न द्वितीयाभावस्य तात्त्विकत्वम् । न वा विधेयत्वनिषेध्यत्वयोर्विरोध इति भावः । ननु, द्वितीयाभावस्य ब्रह्मरूपत्वस्वीकारपक्षे बमभिन्नत्वरूपं द्वितीयत्वं न तदनुगतम् । तत्राह-तत्रति । द्वितीयाभाव इत्यर्थः । तदनभ्युपगमे द्वितीयत्वास्थीकारे । ननु, यथा 'न हिम्पा'दिति निषेधो विहितान्यहिंसाविषयकः, तथा द्वितीयसामान्यनिषेधो द्वितीयाभावान्यद्वितीयविषयकोऽस्तु । यथा वा षोडशिग्रहणाग्रहणवाक्याभ्यां विकल्पसिद्धिः, तथा द्वितीयाभावप्राप्तितनिषेधाभ्यां सास्तु । तत्राह-यत्र वित्यादि । अतुल्यविषयकत्वे सामान्यविशेषभावाद्यापन्न विषयकत्वे । तुल्यविषयकत्वे सामान्यविशेषभावाद्यनापन्नविषयकत्वे।अगत्यति। निषेधशास्त्रस्यासंकुचवृत्तित्वे प्राप्तिशास्त्रवैयर्थ्यापत्तिरूपवक्ष्यमाणदोषेण सङ्कोचाभावरूपगतेरसम्भवेनेत्यर्थः । विकल्पेन पाक्षिकानुष्ठानेन । एकविषयकत्वं एकस्यातिरात्रस्य विधिनिषेधेोभयसम्बन्धवोधकत्वम् । ग्रहणे अनुष्ठिते तत्सहितैर रुपकारः । अननुष्ठिते तद्रहितैरप्युपकारः । परं तु तत्सहिताङ्गोपकृतेनातिरात्रेण जनिते फले भूमास्ति । अन्यथा तत्सहिते प्रवृत्त्यनुपपत्तेरिति कल्प्यत इति भावः । निषेधस्य द्वितोयाभावसाधारणद्वितीयत्वसामान्यावच्छिन्न प्रतियोगिताकाभावस्य शास्त्रार्थत्वात् अद्वितीयपदघटितशास्त्रस्यावान्तरतात्पर्यविषयत्वात्। न कस्यापीति। द्वितोयाभावोऽत्र न प्राप्यः । तस्यापि द्वितीयत्वेन तत्प्राप्तेरेव तन्निषेधरूपत्वात् । द्वितीयसामान्याभावो हि एकः स्वेतरस्येव स्वस्यापि द्वितीयस्याभाव इति तत्प्राप्तिरपि द्वितीयत्वरूपेण तद्विशिष्टबुद्धौ विरोधिनी तन्निषेध एवेति निषेधशास्त्रस्यैव तत्प्रापकशास्त्रत्वेन न तद्वैयर्थ्यशङ्केति भावः । अत एव उक्तवाक्यस्य सर्वद्वैतनिषेधमानतात्पर्यकत्वादेव । उन्मजनेति । प्राप्तीत्यर्थः । निरस्तमिति । द्वितीयाभावो ब्रह्मणि नास्तीति निषेधपर्यवसाने द्वितीयोन्मज्जनं स्यात् । द्वितीयाभावो द्वितीयं च किमपि ब्रह्मणि नास्तीति पर्यवसाने तु सुन्दोपसुन्दन्यायेन द्वयोरपि निषेधान्न तयोरेकस्याप्युन्मज्जनमिति भावः । विशेषणत्वेनेति । विशेषणत्वेन द्वितीयस्योपादानं यथा न युक्तम् । निषेधस्य पूर्वकृतस्य व्यर्थत्वापत्तेः,
For Private and Personal Use Only

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336