Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
प्रकृते साभिष्वङ्गस्य तीर्थंकरत्वप्रार्थनस्य दुष्टत्वं एव हेतु:, तच्च दुष्टत्वं साभिष्वङ्गे प्रार्थने वर्तते, अदुष्टत्वं च साध्यं निरभिष्वङ्गे प्रार्थने वर्तते । ततश्च हेतुसाध्ययोः सामानाधिकरणत्वं नास्ति, किन्तु व्यधिकरणत्वं = भिन्नभिन्नाधिकरणवृत्तित्वमस्ति, ततश्च नात्र हेतुः साध्यं साधयितुं क्षम इति ।
ननु प्रकृते हेतुस्तु' साभिष्वङ्गप्रार्थनस्य दुष्टत्वान्यथानुपपत्तिः' इत्येवंप्रदर्शितः, न तु साभिष्वङ्गप्रार्थनस्य दुष्टत्वमिति चेत्, न,
‘पर्वतो वह्निमान् धूमात्' इति उच्यताम्' पर्वतो वह्निमान् धूमस्य अन्यथानुपपत्तेः (वह्निं विनाऽनुपपत्तेः) ' इति वा उच्यताम्, न कोऽपि भेदः ।
एवमेवात्र दुष्टत्वान्यथानुपपत्तिः दुष्टत्वं वा किमपि उच्यतां, न कोऽपि भेदः, ततश्च दुष्टत्वहेतुः व्यधिकरण इति पूर्वपक्षोक्तं युक्तमेवेति ।
यशोः पुत्रस्य ब्राह्मणत्वाऽन्यथानुपपत्त्या पित्रोर्ब्राह्मणत्वं न्याय्यमितिवदुपपत्तिरिति भावः । यन्द्रः वैयधिकरण्येऽपि हेतुः साध्यं साधयितुं समर्थः सम्भवतीति समाधानमाह पुत्रस्य ब्राह्मणत्वान्यथाऽनुपपत्त्या = पुत्रगतब्राह्मणत्वस्य पित्रोर्बाह्मणत्वं विनाऽघटमानत्वेन पित्रोर्ब्राह्मणत्वं न्याय्यं अनुमानेन सिद्धम् इतिवत् = एतदृष्टान्तबलेन उपपत्तिः = साभिष्वङ्गस्य दुष्टत्वात् निरभिष्वङ्गस्यादुष्टत्वस्योपपत्तिरिति ।
=
अयं भावः
'मातापितरौ ब्राह्मणौ, पुत्रस्य ब्राह्मणत्वात्' इत्यत्रानुमाने ब्राह्मणत्वहेतुः पुत्रे वर्तते, तेन मातापित्रोः ब्राह्मणत्वं साध्यते। ततश्च यथाऽत्र व्यधिकरणेनाऽपि हेतुना साध्यसिद्धिर्भवति, एवं 'निरभिष्वङ्गं प्रार्थनं अदुष्टं, साभिष्वङ्गस्य दुष्टत्वात्' इत्यत्रापि साभिष्वङ्गप्रार्थननिष्ठेन दुष्टत्वहेतुना निरभिष्वङ्गप्रार्थनेऽदुष्टत्वं सिध्यति इति । अत्रापि ब्राह्मणत्वान्यथानुपपत्तिः ब्राह्मणत्वं वा एक हेतु:, न तत्र कोऽपि भेद इति द्रष्टव्यम् ।
यशो.: उभयभावोपरागविनिर्मुक्ततीर्थकरत्वप्रार्थना किंरूपेति चेत् ?
चन्द्र.: शङ्कते - उभयभावोपरागविनिर्मुक्ततीर्थंकरत्वप्रार्थना किंरूपेति चेत् ?
अयमाशयः - मुग्धजीवश्छत्रचामरादिविभूतिं दृष्ट्वा तामेव च तीर्थंकरत्वं मत्त्वा तदभिलाषेनैव ‘अहं तीर्थंकरत्वं प्राप्नुयाम्' इति प्रार्थयति । अत्र तस्य मनसि तीर्थंकरत्वस्य स्वरूपं बाह्यविभूतिरेव। ततश्च तस्य प्रार्थना बाह्यविभूतिरूपस्य भावस्य = पदार्थस्य उपरागेन = अभेदतयाऽनुभूयमानेन सम्बन्धेन युक्तं यत्तीर्थकरत्वं, तत्प्रार्थनास्वरूपा।
परिणतजीवः केवलज्ञानादिविभूतिं विज्ञाय तामेव तीर्थकरत्वं मत्वा तदभिलाषेणैव 'अहं तीर्थंकरत्वं प्राप्नुयाम्' इति प्रार्थयति। अत्र तस्य मनसि तीर्थकरत्वस्य स्वरूपं अभ्यन्तरविभूतिरेव । ततश्च तस्य

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106