Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 19
________________ किरणावली प्रकाशः १३५ संशयतदभावाभ्यां तत्कारणत्वम् । केवलादृष्टस्मारितकोटिकश्च संशयो नास्त्येव येन तस्य वहिर्भावः स्यात् । सर्वत्र समानधर्मस्यान्वयादिदर्शनात् । ननु समानधर्मेषु समानशब्दो न सादृश्यार्थः । किन्तु साधारणार्थ इति स्थाणुपुरुपसंशयो न स्यात् । तयोः परिमाण. स्यासाधारणत्वात् । तजातेश्चाद्रव्यत्तित्वात् । न । जातरपि परम्परासम्बन्धेन द्रव्यवृत्तेः। .. सारूप्यज्ञानादिति । स्थाणुपुरुपसदृशोऽयमिति ज्ञानात् विरुद्धनानाप्रकारकज्ञानस्यैकस्मिन् धर्मिमण्यनुभवसिद्धत्वादित्यर्थः । वाकारार्थश्च विरोधः। परस्परेति । आरोप्यारोपविषययोम्मिथो भेदार्थ वैधयमुक्तम् । सामर्थ्यानुपलब्धाविति । तोयनातीयस्य पिपासोपरामनसामर्थ्यानुपलब्धावित्यर्थः । तहेतुत्वासम्भवेनेति । इष्टानिष्टसामर्थ्यानुपळम्भसम्भवेनेत्यर्थः । अनुपलब्ध इति । आरोपणीय इत्यर्थः । आरोप्यज्ञानस्यारोपप्रयोजकत्वमुक्त्वारोपविषयज्ञानस्य तत्प्रयोजकत्वमाह-आरोपविषयेति । आरोप्यज्ञानेति । ननु सारूप्यं न सरूपसम्भ्रमहेतुर्मानाभावादिति, ज्ञातस्य तस्य हेतुत्वे तस्य भेदाधिष्ठानतया भेदग्रहात्तदनुपपत्तिः । न साधारणधर्ममात्रग्रहस्यारोप्यस्मारकतया प्रत्यक्षभ्रमे . तन्त्रत्वाव । अन्यथा तद्विषयनियमानुपपत्तेः।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107