Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 14
________________ भूमिका कुमारेण कार्तिकेयेन प्रवर्तितत्वात् कुमाराणां राजकुमाराणां वा कृतेऽत्यन्तं हितसाधकत्वादुपकारकत्वाद् वाऽस्य कौमारमिति सार्थकं नाम । ४. शार्ववर्मिकम् कार्तिकेयमाराध्य आचार्यशर्ववर्मणा प्रोक्तमिदं व्याकरणम्, तस्मादस्य शार्ववर्मिकमिति नामधेयमस्ति । ५. दौर्गसिंहम्, दुर्गसिंहीयं वा दुर्गसिंहेन व्याकरणस्यास्य परिष्कारः कृतः, वृत्ति-टीका - उणादिवृत्तिलिङ्गानुशासन - परिभाषावृत्त्यादिभिर्वा इदं परिबृंहितम् । तेनास्य दौर्गसिंहं दुर्गसिंहीयं च नाम जातम् । २. रचनाप्रयोजनस्य वैशिष्ट्यम् ___ आन्ध्रदेशीयो राजा सातवाहनः कदाचिज्जलक्रीडासक्तो बभूव स्वमहिषीभिः समम्, तत्र जलक्रीडया श्रान्ता विदुषी राज्ञी राजानमाह - 'मोदकं देहि देव' इति । राजा प्रेम्णा जले तस्यै बहून् मोदकान् व्यतरत् । तदा तस्य व्याकरणानभिज्ञतां विज्ञाय राज्ञी राजानमुपजहास । तेन लज्जितो राजा व्याकरणज्ञानाधिगमार्थं संकल्पयामास । तदीयं संकल्पं विज्ञाय आचार्यः शर्ववर्मा षण्मासावधिके काले व्याकरणम् उपदेष्टुं प्रतिज्ञातवान्, ततश्च तपसा कार्तिकेयं तोषयित्वा तत्सकाशात् “सिद्धो वर्णसमाम्नायः" इति सूत्रोपदेशं संप्राप्य व्याकरणमिदं प्रणिनाय | __आचार्यशशिदेवविरचित - व्याख्यानप्रक्रियानुसारं वैदिकानाम्, धनिनाम्, यूनाम्, वणिजाम्, लोकयात्रादिकार्येषु व्यासक्तमानसानामपि मनुजानां क्षिप्रं शब्दसाधुत्वप्रक्रियापरिज्ञानाय कलापस्य रचना संजाता । उक्तमपि - छान्दसाः स्वल्पमतयः शास्त्रान्तररताश्च ये। ईश्वरा वाच्यनिरतास्तथालस्ययुताश्च ये॥ वणिजस्तृष्णादिसंसक्ता लोकयात्रादिषु स्थिताः। तेषां क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम् ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 452