Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 163
________________ २४ बालभारतम् तत्रोत्सर्पिणि राजसूयसमये राज्ञः पृथाजन्मनो द्वीपेशैविनयान्वितैरुपचितं चित्रैमहाप्राभृतैः। प्रत्यक्षीकृतवान्यदस्मि विभवं कोषाधिकारे स्थित स्तेनाद्यापि निरौषधो मनसि मे दाहज्वरो वर्तते ॥ ८॥ अपि च, गान्धाराधिपते मातुल ! ___ मायामये मयसभाधितले महाम्बु त्यक्त्वा ततो व्रजति मय्यनमिक्षभावात् । . यत्कृष्णया विहसितं सह फाल्गुनेन तन्मे मनः कुसुमलावमिदं लुनाति ॥ ९ ॥ (नेपथ्ये।) देवश्चन्द्रकुलप्रतापतिलकः षाडण्यवाचस्पति र्वीरो निर्मलकीर्तिनिर्जरगिरिभूखण्डविद्याधरः । कृत्स्नद्वीपजयैकलम्बितमहाश्वेतातपत्रोन्नतिः पाण्डोः पाण्डुयशस्करो विजयते पृथ्वी पृथानन्दनः ॥ १० चण्डातकः-युधिष्ठिरबन्दी पठति किंनरकण्ठ एषः । (पुनर्नेपथ्ये।) नाले शौर्यमहोत्पलस्य विपुले सेतो समिद्वारिधेः शश्वत्खङ्गभुजंगचन्दनतरौ क्रीडोपधाने श्रियः। आलाने जयकुञ्जरस्य सुदृशां कंदर्पद चिरं श्रीदुर्योधनदोष्णि विक्रमधने लीनं जगन्नन्दति ॥ ११ ॥ चण्डातक:-एष दुर्योधनमागधः कलकण्ठो नाम । विदुरः-संप्राप्तावेतौ युधिष्ठिरदुर्योधनौ सभाम् । एते च भीष्मद्रोणकृपहार्दिक्यकर्णसोमदत्ताश्वत्थामादयो भीमसेनः कौरवेश्वरभ्रातृशतं च प्रविशति, तदावामपि प्रविशावः । (इति निष्क्रान्तौ ।) विष्कम्भकः । १. उदाहृतोऽयं श्लोकः क्षेमेन्द्रेणौचित्यविचारचर्चायाम् .

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184