Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6DGGC
पञ्चविंशतिषड्विंशतिबन्धकानामपि वाच्यम् । केवल मिह देवोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तैकेन्द्रियप्रायोग्यां पञ्चविंशतिं च बध्नन् संग्राह्यः । नवरं पञ्चविंशतिबन्धे बादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभदुर्भगानादेययशःकीय॑यश-कीर्तिपदैरष्टौ भङ्गाः, न शेषाः, सूक्ष्मसाधारणपर्याप्तेषु देवस्यानुत्पादात् । सत्तास्थानभावना पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्राग्वत् । सर्वसंख्यया चत्वारिंशत् प्रत्येकं सत्तास्थानानि । अष्टाविंशतिबन्धकस्य मिथ्यादृष्टेझै उदयस्थाने त्रिंशदेकत्रिंशच्चेति, तत्र त्रिंशत्तिर्यपञ्चेन्द्रियमनुष्यानधिकृत्य, एकत्रिंशत्तिर्यपश्चन्द्रियानेव । सत्तास्थानानि चत्वारि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च । तत्र त्रिंशदुदये चत्वार्यपि, तत्राप्येकोननवतिबद्धजिननाम्नो वेदकसम्यग्दृष्टेः परिणामपरावृत्या मिथ्यात्वं गतस्य नरकाभिमुखस्य तद्योग्यामष्टाविंशति बध्नतोऽवसेया । शेषाणि तु त्रीण्यविशेषेण तिर्यङ्मनुष्याणाम् । एकत्रिंशदुदये एकोननवतिवर्जानि त्रीणि, एकोननवतिस्तु जिननामसहितेति तिर्यक्षु न संभवति । सर्वसंख्ययाऽष्टाविंशतिबन्धे सत्तास्थानानि सप्त । देवगतिप्रायोग्यवर्जा शेपामेकोनत्रिंशतं विकलेन्द्रिय-18 तिर्यपश्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बनतो मिथ्यादृष्टेः सामान्येन नवापि प्राक्तनान्युदयस्थानानि, षट् च सत्तास्था- | नानि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्रैकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्ते, तत्राप्येकोननवतिबद्धतीर्थकरनामानं मिथ्यात्वगतं नैरयिकमधिकृत्य ज्ञेया, द्विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यपश्चन्द्रियैकेन्द्रियानपेक्ष्य, | पडशीतिश्च विकलेन्द्रियतिर्यपञ्चन्द्रियमनुजैकेन्द्रियानधिकृत्य, अष्टसप्ततिरेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियानधिकृत्य । चतुर्विंशत्युदये एकोननवतिवर्जानि शेषाणि पश्च सत्तास्थानानि, तानि चैकेन्द्रियानेवाधिकृत्य ज्ञेयानि, अन्यत्र चतुर्विशत्युदयाभावात् । पश्चविंशत्युदये षडपि सत्तास्थानानि यथैकविंशत्युदये भावितानि तथा भावनीयानि। षविंशत्युदये एकोननवतिवर्जानि पञ्च प्राग्वद्भाव्यानि
KGROCEEDS
For Private and Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319