Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 170
________________ सोमशम्भुरचिता। १५३ तन्मध्येऽष्टदलं पद्मं तस्यांशे कर्णिकादिमे । द्वितीये केसराणि स्युस्तृतीये दलसन्धयः ॥१४६३॥ चतुर्थे तु दलाग्राणि गात्राणि दलसन्धयः । चतुरगुलकाः कार्या यथाशोभं यथाक्रमम् ॥१४६४॥ दलायादङगुलं त्यक्त्वा प्रतिवारणमण्डलम् ।। ममन्तादङगुलार्धति विधातव्यं विचक्षणः ॥१४६शा आसने देवदेवस्य वीथ्यादिसहिते क्वचित् । द्वारमाना भवेच्छोभा तदर्धन कपोलकौ ॥१४६६।। श्वेतं रक्तं रजः कृष्णं क्षिपेत्पीतं विधानतः । केसराणि दलाग्राणि गात्रकाणि दलानि च ॥१४६७॥ कुर्वन्ति व्यङगुलान्यन्ये कर्णिकांशषडङ्गुलम् । तत्र संपूज्य देवेशं वज्राद्यैः कुम्भसंनिधौ ॥१४६८॥ कुण्डनाभिं पुरस्कृत्य निविष्टा मूर्तिधारिणः । गुरोरादेशतः कुयुनिजकुम्भस्य संस्कृतीः ॥१४६६॥ जपेयुर्जापिनः साङ्ख्यमस्त्रमन्येऽपि संस्कृतम् । पठेयुाह्मणाः शान्ति स्वशाखावेदपारगाः ॥१४७०॥ श्रीसूक्तं पावमानीं च नासदाख्यं सवाजिनम् । बामदेवश्च ऋग्वेदी पैतृकं च वृषाकपिम् ॥१४७१॥ संयतः सर्वदिग्भागे सर्वमेतत्समुच्चरेत् । देवव्रतं च भारुण्डं ज्येष्ठसाम रथन्तरम् ॥१४७२।। पुरुषं गतिमेतानि सामवेदी तु दक्षिणे ।। १ 'नीय क.।

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208