Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 175
________________ कारकड्याश्रयकाव्यम् __ननाथेत्यादि । नाथ ! स्वामिन् ! यः शम्भुः सोमनाथो निशि रात्रौ, स्वप्ने इति बोध्यम् । त्वां ननाथ "प्रभासविध्वंसपरेषु तेषु दण्डोशना त्वं भव सज्यधन्वे" त्यादिना ग्राहरिपुनिग्रहं याचितवान् , तं सोमनाथं शम्भु नाथं चेन्नाथसे स शम्भु नाथो मे भूयादित्येवमाशंससे, अथ किञ्चोच्चैरतिमहतां यशसां नाथसे--महती कीर्ति में भूयादित्येवमाशंससे तथा स्ववंशधर्म स्वस्य वंशस्य कुलस्य चालुक्याख्यस्य धर्ममुत्पथगामिनो दण्डनीया इत्येवं गृहीतकर्त्तव्यं स्मरसि, स्मृतेरनयप्रवृत्ता दण्डनीया इति राजधर्मसंहिताया वा चेत्स्मरसि तत्तदेह ग्राहरिपौ विषये रुषां कोपानां दयस्वाऽऽप्नुहि, कोपं कुर्वित्यर्थः । क्षमा शान्ति मा दयस्व ॥ १३ ॥ त्वमेव तस्ये १ शिष इत्यदिक्षदीशान ईट् त्वां तदुपस्कुरुष्व । बलं २ धियां चाऽस्य वधे रुजेद्धि राज्यस्य ३ राष्ट्रं द्विडुपेक्षणाऽमः ॥१४॥ त्वमेवेत्यादि । त्वं मूलराज एव नाऽन्यस्तस्य ग्राहरिपोरीशिषे, तं निग्रहीतुं समर्थोऽसीत्यर्थः । इति अत एव ईट् प्रभुरीशानः शम्भुः सोमनाथस्त्वामदिक्षत् ग्राहरिपुं निगृहाणेति स्वप्ने आज्ञापितवानित्यर्थः। अन्यथा तदयोग्ये तद्विधिनिदेशाच्छम्भोरसर्वज्ञत्वाविकल्पेनेति पक्षे षष्ठी ॥ १३ ॥ १-२-३ प्रतियत्नार्थककृगो रुजार्थस्य च व्याप्यस्य वा कर्मत्वमिति । यथायथं पष्ठी ॥ १४ ॥

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246