Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 203
________________ तृतीयोऽध्यायः । श्रोणा श्रविष्ठया युक्ता ग्राह्या तु द्वादशीव्रते ॥ ३६ ॥ ज्येष्ठा श्लेषा रेवती च पादा अन्त्या भसन्धयः । तेषां च तत्परीणामन्त्या आद्याश्च षोडश ॥ ३७॥ भसन्धयश्च गण्डान्ताः सर्वकर्मसु वर्जिताः । यथैव लग्नगण्डान्ते नास्ति जीवे विनिर्गतिः ॥ ३८॥ तथैव तिथिगण्डान्ते नास्ति दौर्बल्यशालिनी । प्रदोषव्यापिनी ग्राह्या तिधिनतवतेषु च ॥ ३६ ॥ अभावे दिगुणच्छायाव्यापिन्यां काल ईट्टो । दिवा नक्तं चरेदग्व्यिापिन्यां वा तथा ततः ॥ ४० ॥ उपवासदिने रात्री स्यान्नक्तं हरिवसरें। एकभुक्तन नक्तन तथैवायाचितेन च ॥ ४१ ॥ उपवासेन दानेन पञ्चधा देशिको भवेत् । व्रतं चैव दिजे चोक्ता न (१)याचेत व्रतं ततः ॥ ४२ ॥ मध्याह्नव्यापिनी तहदेकमुतव्रतं प्रति । उपवासदिनेऽप्येवं पूर्वाह्वव्यापिनी मुने ॥ ४३ ॥ द्यरात्रव्यापिनी ज्येष्ठा व्रते सा तदुपस्थिता । ज्येष्टीपवासे पूर्वविता सा ग्राह्या चास्तगामिनी ॥४४॥ तदैकये परविद्धा सा क्षीयमाणेन तन्मतम् । ओजयुग्मे तिथिः पूर्वा परिविद्धा च पक्षयोः ॥ ४५ ॥ व्रतोपवासादी ग्राह्या वृद्धिहानी च कारणम् । (१) न याचेत कुतश्चन इति २ पु० पा० । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240