Book Title: Jyotirvignan Shabda Kosh Author(s): Surkant Jha Publisher: Chaukhambha Krishnadas Academy View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (V) इति वचनेन सिद्ध्यति यत् कल्याणवर्मकृत 'सारावली' प्राचीनार्षग्रन्थाणां सारभागं सङ्ग्रह्यापि च बृहज्जातकयवनादिरचितशास्त्रप्रभृतिका ये पौरुषजातकग्रन्थास्तेषां सारभूतवाक्यानि सङ्कलय्य रचयामास। यथा ग्रन्थेऽस्मिन् ग्रन्थकारः कथयति "सकलमसारं त्यक्त्वा तेभ्य: सारं समुध्रियते।।" वस्तुतस्तु साम्प्रतिक पौरूषजातक ग्रन्थेसु बृहज्जातकस्य मूलभूता एव कियन्ता: श्लोका दृश्यन्ते। एवमेव बृहज्जातकमिव संहितास्कन्धस्य बृहत्संहिता ग्रन्थस्य, यस्या परनाम 'वाराही संहिता'ऽस्ति, साम्प्रतिके लोकेऽतिमहत्त्वमभिदृश्यत इति। एवम्प्रकारेण भारतीयज्योतिर्विज्ञानस्यातिविस्तृतं क्षेत्रं दृष्ट्वा तथा ऋग्वेदकालतश्चाद्यावधिं यावद् त्रिस्कन्धात्मकेषु भारतीयज्योतिषसाहित्येषु सम्प्रयुक्तानां व्यवहतानां च विभिद्यात्स्रोतादाऽऽगतानां शब्दानां सम्यज्ज्ञानाय तेषामध्ययनाध्यापनयोस्तेषां प्रायोगिक स्वरूपस्य चापि सरलीकरणाय चैकस्य शब्दकोषस्य दीर्घकालेनापेक्षा वर्तते। तस्याऽऽपूर्त्यर्थमेवायं कोषग्रन्थो भवति सेवायां प्रस्तुतोऽस्ति। ग्रन्थेऽस्मिन् नवदश सर्गाः सन्ति। यथा- 'पञ्चाङ्गसर्गः, कालसर्गः, पर्वसर्ग................' इति। येषां परिज्ञानं ग्रन्थदर्शनेन स्पष्टतया तु सम्भवत्येव, सहैव शब्दकोषस्यान्यान्यानां विशेषताया अपि सम्यग् ज्ञानं भवति। परम विश्वासो मापस्ति यत् सर्वेभ्यः स्तरेभ्यः पाठकेभ्यो ग्रन्थोऽयमवश्यमेव समुपयोगयोग्य: संग्रहणीयश्च भविष्यति। इति।। तत्र यावदध्ययनाध्यापने काठिन्यञ्चावलोकयद्भिः वाराणसेय ‘चौखम्बा संस्कृत सीरीज' नामकस्य संस्थानस्याध्यक्ष श्रेष्ठिवर महोदयैः मुहुरभ्यर्थितश्चाहमेतद् प्रस्तुतस्य ज्योतिर्विज्ञानशब्दकोषस्य शब्दसङ्कलने लेखनेप्रकाशनकार्ये च प्रवृत्तोऽभवम्। तदस्मिन् पुण्यात्मके जगदुपकृतिकार्ये विश्वनाथानुकम्पया परमाल्पधियाऽपि मया त्वरितमेव निर्बाधं साफल्यमवाप्तमिति गुरुपदानुकम्पैव बीजम्। यद्यनेन जनानां किञ्चिदपि लाभोऽभविष्यत् तदा मम श्रमं सार्थकं सम्पत्स्यते। प्रमादवशात् यन्त्रादिवशाद् वा या अशुद्धयः सञ्जाता विद्वद्भिः संशोधयित्वा पठनीया: सूचनीयाश्च। एतदर्थमपि सर्वेषां कृतज्ञता ज्ञापयामि। वाराणसी अनन्त चतुर्दशी-सम्वत् २०६५ कलिसम्वत्-५१०९ विदुषामाश्रवः सुरकान्त झा For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 628