Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्यन्तरं तावदिति । केवल्याहारकप्रभसूत्रं सुगम, भगवानाह-गौतम! अजघन्योत्कर्षेण त्रयः समयाः, केवल्याहारको हि सयोगिभवस्थकेवली, तस्य चानाहारकत्वं त्रीनेव समयान यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ॥ सम्प्रत्यनाहारकस्यान्तरं चिचिन्त-11 यिषः प्रथमतश्छद्मस्थानाहारकस्याह-'छउमत्थाणाहारयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येन | क्षल्लकभवग्रहणं द्विसमयोनं, उत्कर्षतोऽसङ्ख्येयं कालं यावदङ्गुलस्यासयेयो भागः, यावानेव हि छद्मस्थाहारकस्य कालस्तावानेव छद्मस्थानाहारकस्यान्तरं, छन्नस्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्तमुत्कर्पतोऽसये या उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽङ्गल-10 स्थासङ्ख्येयो भागः, एतावन्तं कालं सततमविग्रहेणोत्पादसम्भवात् , ततश्छद्मस्थानाहारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथटू स्थाने २ क्षुल्लकभवग्रहणमित्युक्तं तत्र क्षुल्लकभवग्रहणमिति कः शब्दार्थः ?, उच्यते, क्षुल्लं लघु स्तोकमित्येकोऽर्थः क्षुल्लमेव क्षुल्लक-एका-IN युष्कसंवेदनकालो भवस्तस्य ग्रहणं-संबन्धनं भवग्रहण, क्षुल्लकं च तद् भवग्रहणं च क्षुल्लकभवग्रहणं, तच्चावलिकातश्चिन्त्यमानं षट्पञ्चाशद|धिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति ?, उच्यते, किञ्चित्समधिकानि सप्तदश, कथमिति
चेदुच्यते-इह मुहूर्त्तमध्ये सर्वसङ्ख्यया पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति, यत उक्तं चूर्णी|"पन्नट्ठिसहस्साई पंचेव सया हवंति छत्तीसा। खुड्डागभवग्गहणा हवंति अंतोमुहुत्तंमि ॥१॥" आनप्राणाश्च मुहूर्ते त्रीणि सहस्राणि सप्त |
| शतानि त्रिसप्तयधिकानि, उक्तञ्च-"तिन्नि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहि अणंतनावणीहिं ॥१॥” ततोऽत्र राशिककर्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैत्रिभिः सहस्रैरुच्छासानां पञ्चषष्टिः सहस्राणि पञ्च
शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति तत एकेनोच्छासेन किं लभामहे ?, राशित्रयस्थापना-३७७३।६५५३६।१। अत्रान्त्य
SACREAMGAR
Jain Education Intern
For Private Personel Use Only
N
Enelibrary.org
SA

Page Navigation
1 ... 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938