Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
अरिमर्दननृप-जिनदत्तबोधार्तालाप निकृष्ट ! निर्लज्ज ! निर्लक्षण ! रे दुष्टात्मन् ! त्वं शतशः खण्डानि द्वत्तं भव, यदेचं निजामितजनान्तं पश्यन्नपि त्वं राज्यादिवाञ्छा विधत्से ? । इत्यादिध्यायन्तं नृपं प्रति बर्दापनिकाग्राहका नरास्त्वरितमागत्य जगदुः – हे देव ! महत्कल्याणमद्य वर्तते, मा विपीद, सर्वेषा कुशलं जातम् । राजाप्यूचे - कथम् ? इति । तेऽप्यूचुः -- यः श्रेष्ठी परकटके गतः स पिता, श्रेष्ठिनी माता सजाता, यो राजा जिनदत्तः स पुत्रः, इत्थं कुटुम्बं मिलितम् । राजा वक्ति - असम्भाव्यम् , नैव घटते, युप्माकं कश्चिदिह विपर्यासो जातो भावी । तेऽप्याहुः – “देव ! विपर्यासस्तेषां भवति, येऽत्र नेत्र-श्रोत्रविकलाः स्युः सर्वथा हृदयशून्या वा भवन्ति । अथ परमुखश्रुतग्राहिणो भवन्ति, ते विपर्यस्यन्ति । हे देव ! न तु वयं तादृशाः स्म यदस्माभिः प्रत्यक्षमेव दृष्टम् , दृष्टेः कोऽपि साक्षी न भवति, एतावदलीकं सामान्यजनाग्रतोऽपि वक्तुं न शक्यते, किं पुनर्देवस्य पुरतः ? तथा राजन् ! अस्माभियुद्धवचनं श्रुतमस्ति, यथा -
1मा होह सुयग्गाही, मा जंपह जं न दिट्ठ पच्चक्खं ।
पच्चक्खे वि य दिठे जुत्ताजुत्तं वियाणाह ॥२४८॥" पुनः पुनः कटकायातैर्वर्द्धापकैस्तथैव स्वरूपं जगदे। ततो हृष्टेन राज्ञा तत् सत्यं मानितम् । ततो राजा दध्यौ - "अहो ! ते पातकिनो मूर्खा एव ये न्यायमार्ग' त्यजन्ति, ये च न्यायं पुरस्कृत्य व्यवहरन्ति ते धन्या एव, यदुक्तम् -
यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥२४९॥ श्रियो नाशं यान्तु व्रजतु निधनं गोत्रमखिलं, शिरश्छेदो वाऽस्तु प्रभवतु समन्ताद् विपदपि । विवेकार्कज्योतिविघटितमहामोह तमसः,
प्रतिज्ञातादर्थात् तदपि न चलन्त्येव सुधियः ॥२५०॥ यदि च नाहं धर्माचारं लुलोप तदा ममापयशोऽपि नाऽभूत् , श्रेष्ठयपि जिजीव"।
अथ राजा सर्वाः प्रतोलीरुद्घाटयामास । पुरे उत्सवा उत्सवोपरि जायन्ते । ततो भूपतिर्जिनदत्तमिलनोत्कण्ठाप्रेरितश्चचाल सैन्यविशालः । अथाऽऽबालगोपालं सर्व लोका .. 1. मा भवथ श्रुतग्राहिणः = आकर्णितग्राहिणः, मा जल्पथ यद् न दृष्टं प्रत्यक्षम् , प्रत्यक्षेऽपि च दृष्टे युक्तायुक्तं विदानीत

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132