Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीयुगादिदेवजटाकूटवर्णनस्तोत्रम् एषोऽर्हन्नुचितस्तु नाविति हृदास्थायां ससंसजटा
कूटात्विरणस्रजे जिनशिवश्रीकान्तयोः स्वप्रभौ ॥ ८ ॥ भाग्याभोगतया स्वयं सहवृते ज्ञानादिकश्रीत्रिके
न्यक्षक्षायिकभावगे क्षपककश्रेणीमणीमण्डपे । तन्वत्यद्भुतयत्पुरे विधिरिवापूर्वप्रवेशं जटा
व्याजात्तोरणवल्लरी व्यरचयत्स श्रीजिनः पातु नः ॥९॥ कर्मोन्मूलननिर्मलाच्छमकलाकेलेल्यैकालया,
द्यध्यानाद्वहिरेष किं प्रकटितः साक्षाजटालक्षतः। सम्यग्ज्ञानसमुत्थनिःस्पृहमतिः सद्वेषरागक्षयो
लक्ष्यः शान्तरसःशिवाय स जिनः पायादपायाजनान्॥१०॥ पश्यामः किल निर्विकारसरसा निर्णिक्तभक्तीरिताः
सेवन्ते भुवि के स्वनाथमथ तान् सर्वान् वृणीमो वयम् । इत्यालोकनहेतुतः किमु जटारूपं विधायाऽध्यगु,
स्तत्तत्सिद्धिसमृद्धयः स्वयमिनं यं स श्रिये स्ताजिनः ॥११॥ पश्चाचारवसुप्रसूमयमहाहाश्रमी यत्पुरे
संवेगोपशमवतैः परिवृतः श्रीधर्मसम्राट् स्वयम् । जग्राह स्वशयद्वयेऽसियुगली सर्वाघसेनाभिदे
स्कन्धद्वन्द्वजटानुषङ्गमिषतः सोऽर्हनतानन्ददः॥ १२ ॥ ज्ञानं स्यात्सक्रियाभिर्विरहितमफलं सत्क्रियाज्ञानशून्या
स्तद्वद्वन्ध्यास्ततो नावमितचितरसं मैत्र्यमन्योन्यमस्तु । सम्यग्ज्ञानक्रियाभ्यामिति हृदयधिया यजटाच्छद्मनाभ्यां सख्याङ्गुल्यो मिथः किं ततयुतविहिते सोऽस्तु देवो मुदेवः१३ साध्यांऽसः शुशुभेऽतिशोभिजटया यः कन्जलस्निग्धया
पूर्व लालनपालनाकलनया सम्भुक्तसर्वस्वया । लीलोपेक्षितयाथ राज्यरमया निर्मुक्तबाष्पच्छटा
श्रेण्येवायतया नतेषु स जिनस्तन्यादमन्दा मुदम् ॥ १४ ॥ यत्कल्याणमयाङ्गमेरुशिखरे सच्छायताच्छच्छविविश्वे सर्वजनीनतेहितफला स्वर्गापवर्गप्रदा।
For Private and Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101