Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
जैनेन्द्र-व्याकरणम्
[ श्र० ५ पा० २ सू० ८३-८
तीति ततश्च जागरुरित्यत्र " जुसि " [ ५२८० ] इत्यस्य श्रहं जजागर । णित्पक्षे "गागयोः " [ ५८१] इत्यस्य च प्रतिषेधः स्यात् । अथवा जागुरित्यनेनानन्तराप्राप्तिः प्रतिषिध्यते न " जुसि" [ ५२८०] इत्यादि प्रातिः । अथ नञर्थः पर्युदासो नोपपद्यते अभावमात्रस्य वृत्यर्थत्वात् । न चोत्तरपदार्थाभावेन विधेर्निमित्तत्वमाश्रयितुं शक्यम् । तदयुक्तम्, यद्यभाव एव वृत्त्या गम्यते कथमब्राह्मणादिवाक्ये क्षत्रियादेरानयनम् । अथापि स्यात् । कथमुत्तरपदं सादृश्येन विपरीते वर्तते । वृत्तौ वा वर्त्तिपदार्थव्यतिरेकेणान्यपदार्थसम्प्रत्ययादुपसर्जनीभूतस्वार्थ सत्यवमन्त इत्यत्र "श्रीगोनीचः " [१/१८ ] इति प्रादेशः प्राप्नोति । श्रनेकमित्यत्र च द्विबहू स्यातामित्येव्यसारम् । यथोत्तरपदं स्वार्थे वर्तते । स्वभावतः तथानवृत्तौ परार्थि न वर्त्तिपदार्थकत्वे वर्तिष्यते । यथा च स्वार्थं वर्तमानं नोपसर्जनमेवं परार्थेऽपि सादृश्येन स्वार्थ एवेति कथमुपसर्जनत्वात् प्रादेशप्रातिः । श्रनेकमित्यत्र च एकशब्दः प्रधानभूत उपात्तस्वलिङ्गसंख्य एव परार्थे वर्तते इति द्वित्वबहुत्वयोरभावः । एवं तर्हि प्रसज्यप्रतिपेधो नञर्थो न युक्तो वृत्त्यभावप्रसङ्गात् । तथाहि क्रियामपेक्षमाणस्य नञः उत्तरपदेन सामर्थ्याभावाद्वृत्तिर्न प्राप्नोति । नैष दोषः, बचनाद् भविष्यति । देवदत्तस्य गौनास्तीत्यनभिधानान्न भवति । ततो द्वावपि नञर्थी युक्तौ । यदोत्तरपदं स्वार्थविपरीते वस्तुनि वर्तते तदा निवृत्त पदार्थकत्वं द्योतयन्न वृत्तिं लभते । यदा तूत्तरपदं स्वार्थ एव वर्तते तदा नञ् क्रियाप्रतिषेधद्वारेण सामर्थ्यमनुभवन् वृत्तिमाप्नोति ।
युङः ||२३|| सञ्ज्ञस्योङः एव भवति गागयोः । द्योतते । वर्षति । छेदनम् । भेदनम् । ननु च भेत्ता छेत्ता इत्यत्र त्यादेगोरवयवस्य च हलोरानन्तर्ये “ स्फेरु : ” [ |२| १०० ] इति दसञ्ज्ञया चिसा बाधिता कथमे । उच्यते " त्रसिगृधिष्टषिक्षिपः मनुः " [२।२।११६] इति " हलन्तात् [ ११८४ ] इति च नुनोः किरणं ज्ञापकम् | त्यादेर्गोत्तस्य च हलोरानन्तर्ये " ध्युङ" एत्र न व्यावर्तते । घि चासावुङ् च बुङिति यसः किम् ? भिनत्तीत्यत्र मा भूत् । इको ध्युङ एब्भवतीति सम्बन्धात् प्रसज्येत ।
नेटः ||२४|| इट एव न भवति । करिणम् । अरणियम् । कणिता । रणिता । श्रमं डादेशे टिखं चाश्रित्य पूर्वस्य गुसञ्ज्ञायां "ध्युङ : " [५२८३] इति एम्प्राप्तः ।
थस्य गे पित्यचि ॥ २२८॥ थसञ्जस्य गोर्यो युङ् तस्याजादी गे पित्ये न भवति । नेनिजानि । निजम् । विचानि । अवेविचम् । वेविषाणि । अवेविषम् । लोटि लङि च चस्य " निजामुच्येपू" [५।२।१७४] | एवं बोबुधीति । बोभुजीति । बेभिदीति । भस्येति किम् ? वेदानि । ग इति किम् ? निनेज । अनीति किम् ? नेनेक्ति । विग्रहणमुत्तरार्थम् । अपिति गे ङ्कितीति प्रतिषेधः सिद्धः । ध्युङ इत्येव । जुहवानि ।
सूभवत्योर्मिङि ॥|५|२२८६ ॥ सू भवति इत्येतयोर्मिंङि पिति गे एच् न भवति । सुवै । सुवावहै। सुवामहै । अभूवम् । अभूत् । सूग्रहणेन सूतिर्गृह्यते । सूयतिसुवत्योर्विकरणेन व्यवधानम् । विकरणस्य ङित्त्वादेव प्रतिषेधः सिद्धः । मिङीति किम् ? भवति । शत्रयम् । भवतैस्तिपा निर्देशो यङबन्तनिवृत्यर्थः । बोभवीति । सूत्रोपलक्षणं चेदं तिपा निर्देशेनं सूतेरपि यङन्तस्य निवृत्तिः । सोपवीति ।
हल्यैबुप्युतः ||५|२|८७||हलादौ पिति गे परतः उपि सति उकारान्तस्य गोरे भवति । एपोऽपवादोऽयम् | यौमि । यौषि । यौति । रौमि । रोषि । रौति । इदमेव ज्ञापकम् - पूर्वे विकरणः पश्चाद् गुकार्यम् । अन्यथा पूर्वमपि सति उकारान्तता न भवेत् । तरतः । तरन्तीत्यत्र ऋत इत्वं च स्यात् । अथवा नित्यः शप् । हीति किम् ? यवानि । उपीति किम् ? जुहोमि । सुनोमि । उत इति किम् ? एमि । एपि । एति । तपरकरणं किम् ? लोलोति । पितीत्येव । युतः । स्तः । हलि पितीनिर्देशादव्यवहितग्रहणम् । इह मा भूत् । अपि स्याद्राजानम् । थस्य नेत्येतदिहानुवर्त्यमिति केचित् । योयोति । रोरोतीत्यादिसिद्धये ।
वोऽणः ॥ २८८ ॥ उपतेर्वा एब्भवति हलादौ पिति गे । प्रोर्णोमि । प्रोणमि । प्रोणौषि । प्रोणोषि । प्रोति। प्रोर्णोति । हलीत्येव । प्रोर्णवानि । पितीत्येव । प्रोतिः । पूर्वेण प्राप्ते विकल्पः ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568