Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 282
________________ १. प्रमाणपरिच्छेदः । पृ. ३९ पं. १६ स्थापना सामान्येति-तद्विशेषेति । पृ. ३९ पं. १७ स्थापनाविशेषेति-न चैषा स्वमनीषा, किन्त्वागमप्ररूपणैवेत्याह। पृ. ३९ पं. १८ यथागममिति-आगममनतिक्रम्येत्यर्थः । न चेयमस्तिस्समनानुपूर्ध्या आगमे न दृश्यत इत्यत आह । पृ. ३९. पं. १८ भावनीयम्-आगमनिष्णातसुधीभिरिति शेषः तथा चागमार्थविचारणया मजयन्तरेणागमोक्तमेवैतदिति सुधियां बुद्धिमधिरोहतीति । तमानवद्यमित्यादिनाऽत्र दर्शिता सङ्ग्रहव्यवहारयोः स्थापनाभ्युपगमसमर्थनप्रक्रिया विशेषावश्यके इत्थं दृश्यते तत् परिहरन्नाह इह सङ्ग्रहिको सङ्ग्रहिकः सर्वो वा नैगमस्तावत् निर्विवादं स्थापनामिच्छत्येव, तत्र सङ्ग्रहिका सङ्ग्रहमतावलम्बी सामान्यवादीत्यर्थः, असञहिकस्तु व्यवहारमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः । ततथ यदि सङ्ग्रहमतावलम्बी नैगमः स्थापनामिच्छति बर्हि सङ्ग्रहस्तत्समानमतोऽपि ता किं नेच्छति? इच्छेदेवेत्यर्थः । अथ यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपतेरसङ्ग्रहिकोऽसौ तामिच्छतीति प्रतिपतव्यं, न सङ्ग्रहिकः, न ततः सङ्ग्रहस्य स्थापनेच्छा निषिभ्यते (विधीयते) तर्हि एकत्र संघित्सतोऽन्यत्र प्रच्यवते एवं हि सति व्यवहा. रोऽपि स्थापना किं नेच्छति ! कुतः ! असङ्ग्रहिकनेगमसमानधर्मा व्यवहारनयोऽपि वर्तते ततश्चैषोऽपि स्थापनामिच्छेदेवेति निषिद्धा चास्यापि त्वया, अथ परिपूर्णो नैगमः स्थापनामिच्छति न तु सङ्ग्रहिकोऽसङ्ग्रहिको वेति मेदवान् अतस्तद् दृष्टान्तात्सअहव्यवहारनयोने स्थापनेच्छा साधयितुम् अत्रोच्यते-तर्हि नैगमसमानधर्माणो द्वावपि समुदितौ सङ्ग्रहव्यवहारौ युक्तावेव । इदमत्र हृदयम्-तर्हि प्रत्येकं तयोरेकतरनिरपेक्षयोः स्थापनाऽभ्युपगमो माभूदिति समुदितयोस्तयोस्सम्पूर्णनैगमः केन वार्यते ! अविभागस्थागमात्प्रत्येकं तदेकैकताग्रहणादिति" किश्च समहव्यवहारयोरित्यादिना दर्शिताया युक्तस्तत्रैवं प्ररूपणा" इदमुक्त भवति-यथा विभिनयोः सङ्ग्रह-व्यवहारयो गमोऽन्तर्भूतः तथा स्थापनाभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेव, ततो भिन्नं भेदेन तौ तदिच्छत एव,

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332