Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
१४८
ऋषिभाषितटोका भावनयाऽनुप्रेक्षादिना विभावयेत् , न हैमं दन्तकाष्ठं खादेत् खादितुं कामयेत चक्रवर्त्यपि (२३) ॥ हे सुविहितपुरुष, अल्पकालकमन्तरं क्षणस्तोकमुहूर्तमात्रं प्राप्य तस्य विभावयतोऽपि विपुलः फलागमः, किं पुनस्तस्य यः सिद्धि प्रति पराक्रामेत् ? ॥ आर्द्रकीयमध्ययनम् ।
स्रवन्ति सर्वतः स्रोतांसि, किं न स्रोतोनिवारणम् ? कथं स्रोतः विधीयत इति पृष्टो मुनिराख्यायात् (१) ॥ जाग्रतोऽप्रमत्तस्य मुनेरिन्द्रियाणि पञ्च सुप्तानि, सुप्तस्य मुनेस्तु पञ्च जाग्रति । पञ्चभिः सुप्तै रज आदोयते पञ्चभि न प्रद्भी रजः स्थापयेत् (२) ॥ शब्दं श्रोत्रं, रूपं चक्षुर्गन्धं घ्राणं, रसं जिह्वा, स्पर्श त्वगुपादाय मनोज्ञ वा पापकं वा मनोज्ञे न रज्येत् , पापके न प्रदुष्येत् मनोज्ञे अरज्यति मुनो, इतरस्मिन्नमनोज्ञे न दुष्टे, अविरोधिषूदासीनेषु वस्तुष्वसुप्तो भवेज्जागृयात्, एवं स्रोतः पिधोयते (३-१२) ॥ (१३) (१४) (१५)....विधेयं गजं....(१६) (१७) (१८) (१९) । वर्धमानाध्ययनम् ।
यथासत्यमिदं सर्वम् । इह यत् क्रियते कर्म तत् परतः परलोकेऽत्रबुध्यते, मूलसिक्तेषु वृक्षेषु तेषां शाखासु फलं दृश्यते (१) ॥ (२) (३) ।। हिंसन् हन्तारं लभते (४)। (५) ॥ भद्रकानि भद्रकानीति मन्यन्ते जनाः, मधुरं मधुर : परुषं परुषमिति मनुते, कटुकं कटुकमिति भणितम् (६) ॥ कल्याणमिति भणतः कल्याणैतत्प्रतिश्रुत् , पाप कमिति पापका (७) ॥ (८) ॥ वाय्वध्ययनम् ।
पाश्चीयाध्ययनस्य कृष्छा इह योज्यन्ते व्याकरणैः। कोऽयं लोकः ? जीवाश्चैवाजीवाश्चैवेति लोकः ? चतुर्विधो लोको व्याख्यातस्तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतः । कस्य वा लोकः? आत्मभाव आत्मना भवति लोक इति योज्यम् । स्वाम्यमुद्दिश्य जीवानां लोको, निर्वृत्ति निष्पत्तिमुद्दिश्य जीवानां चाजीवानां च । को वा लोकभावः ? अनादिकोऽनिधनः पारिणामिको लोकभावः । । केन वाऽर्थेन लोक इति प्रोच्यते ? लोकतीति लोकः । का गतिः ? जीवानां च पुद्गलानां च गतिर्द्रव्यतः क्षेत्रतः कालतो भावतः । व्याकरणस्य तु पाठान्तरं यथा जीवश्चैव गमनपरिणताः पुद्गलाश्चैव गमनपरिणता इति । कस्य वा गतिः ? जीवानां च पुद्गलानां च गतिरित्याख्याता । केचित्तु पठन्ति यथा

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198