Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil

View full book text
Previous | Next

Page 146
________________ ज्ञानसारे योगाष्टकम् BASCUACACIOTTITOR a. विशामि" इति हक्कयन् चपेटयाऽऽहत्याध्यापकं मूमौ पातयामास / ततः कुपुत्र इति कृत्वा राज्ञा निष्कासितो देशात्तापसाश्रमे गतः / पर्यस्तिकां बध्वा मुनीनामग्र आसीनस्तापस: शिक्षितः-“हे महाभाग ! विनयं कुरु।" सोऽवक-"जटाजूटमस्तकभस्मलिप्ताङ्गेषु नग्नेषु को विनयः " / सद्यस्तैद्रे निष्कासितो रुष्टः प्राह-"अहं पितृराज्यं प्राप्य युष्मान् निग्रहीष्यामि" इति संलप्याने गच्छन् मागे सिंहं वीक्ष्य करकृतनिशितकरवालो दाहसंमुख एव गतवान् / सिंहेन भक्षितः खरो जातः / ततः करमः, ततः पुनरपि नन्दिपुरे पुरोहितस्यैव सुतो जातः / शैशवेऽपि चतुर्दशविद्यापारगो महाहकारवशान्मृत्वा तत्रैव पुरे गायनो डुम्बो जातः / पुरोहितस्तं दृष्ट्वा महास्नेहवान् जायते / इतश्च केवलज्ञानी तत्रागात् / केवली पृष्टः पुरोधसा-"ममाय डुम्बोऽतीव वल्लभः कथम ?" केवलिना पूर्वभवसम्बन्धः सर्वः प्रोक्तः / तच्छ्रुत्वा गायनोऽपि जातिस्मृति प्राप्य श्रीमत्केवलज्ञानिपरमात्मवचनश्रवणरसिकः पुनः स्वोद्धरणस्वरूपं पपच्छ / तदा श्रीसर्वज्ञेनानेकस्याद्वादपक्षसमन्वित्रिकरणयोगशुद्धिकरणस्वरूपं प्रकाशितम् / मोक्षयोगविचारो निरूपितः, तथाहिमोक्षेण योजनाद्योगः, सर्वोऽप्याचार इष्यते / विशिष्य स्थानवार्था-लम्बनैकाग्रयगोचरः॥१॥ व्याख्या-मोक्षेण सहात्मनो योजनाद्योगशब्दस्यार्थः निखिलोऽप्याचारो हि इष्ट एव अस्ति विशिष्य-सामान्यशब्द विशेषपरक मत्वा स्थानं मुद्रा आसनादिकं वर्णः अक्षरं शब्दः वाच्यार्थः कायोत्सर्गाद्यालम्बनमेकाग्रता-सिद्धस्मरणमेतत्पश्चविषयकोऽयमाचारः स योग्यः कथ्यते // 1 // / अत्र मिथ्यात्वादिहेतुगतमनोवाक्कायरूपं योगत्रयं, तच्च कर्मवृद्धिहेतुत्वान्न प्रामु, किन्तु मोक्षसाधनहेतुभूतं प्राझम् / सकलकर्मक्षयो मोक्षः, तेन योजनाद्योग उच्यते, स च सर्वोऽप्याचारो जिनशासनोक्तश्चरणसप्ततिकरणसप्ततिरूपो मोक्षोपायत्वाद्योग इष्यते / तत्र विशेषेण स्थान' वर्णार्थी'लम्ब नकाम तेति पञ्चप्रकारो योगो मोक्षोपायहेतुर्मतः इति / अनेनैतदुक्तम्-अनादिपरभावासकानां भव बारबारबारमारनाamudaewa // 130 //

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184